________________
६८. सुलभ-चरित्राणि मुत्सुकोऽपि वारिबद्धो द्विप इव स्थितः ।
आसने शयने याने, भोजने च क्रियासु च । अभयालङ्कृतामाशां-प्रति दत्तमना अभूत् ॥१॥
ततः स तत्रागतपथिकान् सर्वदा पृच्छति, स मगधदेशः कीदृशोऽस्ति ? कीहक् च सोऽभयकुमारोऽस्ति ? एवं निजतनयमार्द्रकुमारं चलचित्तं विज्ञाय तद्गमनशङ्कया राजा गुप्तं पञ्चशतसुभटानाहूयेत्यादिशत्, 'भोः सुभटाः ! अयमार्द्रकुमारो राजगृहे पुरेऽभयकुमारान्तिकं यियासुरस्ति,२८ ततः स यथा तत्र गन्तुं न शक्नोति तथा युष्माभिरेतस्य दूरस्थितैरेव रक्षणं कार्य, परमयं सङ्केतो भवद्भिस्तस्य कदापि नैव वाच्यः,' ओमित्युक्त्वा ते सेवार्थं समागत्य कुमाराय जगुः । 'भोः कुमारेन्द्र ! राज्ञा वयं तव सेवार्थं नियुक्ताः स्मः, आदिष्टमस्ति च यत्किञ्चिदपि तव सेवार्थं विलोक्यते, तत्सर्वं वस्तु कोशाद् ग्रहीतव्यमिति ततो जनकप्रदत्तैस्तै:२९ सेवकैः परिवृत्तः कुमारो निजस्थानके समायातः, अथ यदा यदा स क्रीडा) बहिर्गच्छति, तदा तदा ते सर्वेऽपि सेवकास्तदीयदेहच्छायेव तं कदापि न मुञ्चन्ति । तदा स आर्द्रकुमारो बन्दिनमिव धृतं स्वं मन्यमानो दध्यौ, अथ किं क्रियते ? स्वर्णनिगडानीवैते सेवका मम पदबन्धनकारिणो जाताः, कथं च ममाभयकुमारमीलनं भविष्यति ? एवं चिन्तापरोऽसौ तेषां विश्वासोत्पादनार्थमेवमुपायमकरोत्, प्रत्यहं स तैः सह जात्यतुरङ्गमारूढः पुराद् बहिरुद्याने गच्छति, क्रमाद् दूर दूरतरं दूरतमं च गत्वा स पश्चाद् व्याघुट्य सर्वदा पुनः समायाति । तदा ते सर्वेऽपि सेवकाश्चिन्तयितुं लग्नाः यदयं कुमारोऽधुना सर्वथाऽभयकुमारपार्वे विदेशं गन्तुं नैवेच्छति । एवं जातविश्वासास्ते३° निजहृत्सु मनागपि तत्पलायनचिन्तां न कुर्वन्ति । कुमारोऽपि सर्वदा मनोज्ञाशनपानदानदिभिस्तेषां३१ सन्तोषमुत्पादयति स्म । अथ स आर्द्रकुमारः प्रच्छन्नं समुद्रतीरे निजविश्वस्तपुरुषैरेकं यानपात्रं सज्जयामास । अन्यदासौ जात्यश्वरत्नमारुह्य वेगेन तान् सर्वानपि सेवकान् पश्चाद्विमुच्य तया श्रीयुगादिजिनप्रतिमया युतो महामूल्यरत्नभृतपेटासहितः समुद्रतीरे समागत्य पूर्वं प्रगुणीकृते३२ तस्मिन् प्रवहणे समारुह्य समुद्रमार्गे चचाल।