________________
श्रीआर्द्रकुमारचरित्रम् • ६७ ऽसाविति२३ निजपूर्वजन्मास्मरत् , इतो भवात्तृतीयभवेऽहं वसन्तपुरे मगधदेशे सायकाख्यः कौटुम्बिकोऽभवम्, भार्या च मे बन्धुमत्यभिधा बभूव । अन्यदाहं तया मम भार्यया युक्तः श्रीसुस्थिताचार्यपार्वे धर्मं श्रोतुमगच्छं, गुरुभिश्चेत्थं धर्मोपदेशो दत्तः, यथात्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्गस्य सन्माननम् । स्वाध्यायो गुरुसेवनं च विधिना दानं तथावश्यकम् ॥ शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा । सैष श्रावकपुङ्गवस्य२४ कथितो धर्मो जिनेन्द्रागमे ॥१॥
इत्यादि धर्मोपदेशेन प्रतिबुद्धेन मया भार्यायुतेन श्राद्धद्वादशव्रतानि स्वीकृतानि, कियत्कालं च तानि सर्वाण्यपि व्रतानि मया शुद्धभावेनाखण्डं पालितानि । तत एकदा मूढभावेन प्रमादतस्तानि मया खण्डितानि । अथ कियता कालेनाङ्गीकृतानशना सा मम भार्या बन्धुमती पञ्चत्वं प्राप्ता । तदा तदीयमोहमुग्धेन२५ मया ध्यातमरेरे ! तया मे प्राणप्रियया विनाऽथ जीवितेन किम् ? इति शोकपरः कृतानशनो मृत्वाहं दिवि देवोऽभवं२६ ततश्च च्युत्वाहं धर्मवर्जितेऽनार्यदेशे व्रतखण्डनप्रभावतोऽधुना जातोऽस्मि । अथ योऽयमभयकुमारो जिनबिम्बप्रेषणेन मां प्रतिबोधयति, स नूनं ममोपकारी परमबन्धवो गुरुश्चास्ति । अथाहं पितरमनुज्ञाप्य तत्रार्यदेशे गत्वा तस्याभयकुमारस्य मेलिष्यामि, जिनधर्माराधनतश्चेदं जन्म सफलं विधास्ये, एवं मनोरथान् कुर्वन् स तां श्रीयुगादिजिनप्रतिमां विधिना पूजयित्वाऽभयकुमारपाइँ गन्तुकामो निजजनकसन्निधौ गत्वा जगाद, 'भो: तात ! अहं भवदीयपरममित्रश्रेणिकनृपतनयाभयकुमारस्य मिलनार्थं तत्र राजगृहनगरं गन्तुमिच्छामि' । तदा स आर्द्रकनृपोऽवदत्, 'भो वत्स ! त्वया तत्र गमनेच्छा न कर्तव्या, यतो विदेशगमनं नूनं विषमं विद्यते । स्वस्थानस्थितस्यैव२७ पुंसः शोभा भवति । किञ्चास्माकमपि तेन श्रेणिकनृपेण सह दूरस्थितानामेव मैत्री वर्तते, न च वयं कदापि तत्र यामः, न च सोऽप्यत्रायाति' । एवं पित्रा निषिद्धः स आर्द्रकुमारस्तत्र गन्तु