________________
६६ • सुलभ-चरित्राणि स्मरणज्ञानं समुत्पत्स्यते, अतोऽहं तत्र तस्य प्राभृतमिषेणार्हत्प्रतिमां१६ प्रेषयामि। इति ध्यात्वा सोऽभयकुमारः श्रीऋषभदेवप्रतिमां पेटामध्यस्थां१७ विधाय तन्मध्ये च कुङ्कमधूपचन्दनादिपूजायोग्यवस्तूनि मुक्त्वा तां तालकेन१८ मुद्रयामास । अथ श्रेणिकार्पितप्राभृतयुत आर्द्रभूपमन्त्री यदा प्रयाणार्थं प्रगुणो१९ बभूव, तदा अभयकुमारस्तं समाहूय तीर्थकरप्रतिमायुतां२० तां पेटां तस्मै समोवाच, 'भो मन्त्रिन् ! त्वयैषा पेटा तस्मै आर्द्रकुमाराय मदीयाभिधानकथनपूर्वकं समर्पणीया, कथनीयं चाभयकुमारस्त्वां परमसौहार्देन समभिलषति, पेटा चेयं त्वयैवैकान्ते समुद्घाट्य तन्मध्यस्थवस्तु विलोकनीयम् । इत्युक्त्वा तां पेट तस्मै समप्यको लेखोऽपि तेन तस्याईकुमारस्यार्पयितुं दत्तः, तल्लेखमध्ये चेयं गाथा लिखितासीत् - चित्तं तुम्ह विलग्गं, तुह गुणसवणेण सवणपरितोसो । नयणे मे चवलं, तुह दंसणमहिलसइ ॥१॥
अथ सोऽमात्योऽपि ततश्चलितः क्रमेण निजनगरे समायातः, श्रेणिकार्पितप्राभृतवस्तूनि च निजभपाय समार्पयत् । तानि वस्तूनि विलोक्यार्द्रभूपालोऽप्यत्यन्तं हृष्टः । ततः स मन्त्री आर्द्रकुमारपार्वे गत्वाऽभयकुमारदत्तां पेटो लेखयुतां समोवाच, 'भोः कुमारेन्द्र ! इयं पेटा त्वयैवैकान्ते समुद्घाटनीयेत्यभयकुमारेण भूरिस्नेहपूर्वकं कथितमस्ति' । ततोऽसावार्द्रकुमारोऽपि रहसि स्वयमेव तां पेयं कुञ्चिकया२१ समुद्घाट्य तन्मध्यस्थां रत्नाद्याभूषणैर्भूषितां२२ पूजादिसामग्रीयुतां श्रीयुगादीशजिनप्रतिमां विलोकयामास । तां विलोक्य सोऽचिन्तयत्, अहो ! तेन मम परमसुहृदाभयकुमारेण किमिदमपूर्वं वस्तु प्रेषितमस्ति ? अद्ययावन्मया कुत्राप्येवंविधं वस्तु न दृष्टम् । किमिदं किञ्चिन्नवीनमाभूषणं विद्यते ? एवं चिन्तयन्नसौ तां प्रतिमां निजकण्ठे, मूनि, हृदये च स्थापयामास, परं तेन निजदेहस्य कापि शोभा न दृश्यते । ततोऽग्रे तत्सालङ्कारं श्रीयुगादीशबिम्बं सिंहासनारूढं विधाय तत्सन्मुखं स्थित्वा स दध्यौ, किमीदृशं रूपं पूर्वं मया क्वापि दृष्टं ? इत्यादि भूयो भूयो भावयन् स आर्द्रकुमारो मूर्छामवाप्य जातिस्मरणमाप्तवान् । एवं लब्धजातिस्मरणो