________________
धर्मप्रभावे सिद्धदत्तकथा • ६१ प्राप्तव्यमर्थ४७ लभते मनुष्यः, दैवो न तल्लंघयितुं समर्थः । तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥१॥
एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः समवसृताः । तान् वन्दितुं राजा सिद्धदत्तयुवराजादिपरिवारपरिवृतो जगाम । धर्मदेशनान्ते राज्ञा पृष्टम् - 'भगवन् ! केन कर्मणा सिद्धदत्तस्यैतावती ऋद्धिप्राप्तिः ? गुरुभिरुक्तम्विशालापुर्यां मातृदत्तवसुदत्तौ वणिजौ । आद्यः साधुपार्वे गृहीतस्थूलपरद्रव्यग्रहणनियमः, नेतरः । शुद्धाऽशुद्धव्यवहारपरौ दरिद्रौ । अन्यदा द्रव्याऽर्जनाय पुण्डपुरे गतौ । तेत्र निर्लोभताविषये मातृदत्तस्य प्रसिद्धिर्जाता । तत्रत्यसुतेजनृपेण४८ निर्लोभतापरीक्षायै वनमार्गे रत्नकुण्डलं क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः ते च तद्ग्राहिनरान्४९ दण्डयन्ति । कदाचित्तौ समायातौ । अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा जगाम । पश्चादागच्छन् वसुदत्तस्तज्जग्राह । ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासन्नस्थै राजपुरुषैभृतः । मातृदत्तेन पुनर्मोचितः । राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् । राज्ञो बहुमतः सुखितोऽखण्डधर्ममाराध्य मृत्वा चन्द्रप्रभायां पुर्यां धनपतिधनवत्योः पुत्रः सिद्धदत्तानामा दृढधर्मप्रभावाज्जातः । वसुदत्तोऽपि कूटस्वभावो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्य्वान् दुःखी । इत्येवं तयोः पूर्वभवं श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्यं सिद्धदत्ताय दत्त्वा गुरूणां पार्वे दीक्षां जगृहे । सिद्धदत्तोऽपि बहूनि वर्षाणि राज्यं प्रपाल्याऽन्ते स्वपुत्राय राज्यं दत्त्वा वैराग्यात् प्रव्रज्य सिद्धः।
॥ इति श्रीधर्मप्रभावे सिद्धदत्तकथा ॥
: अभ्यास : प्रश्नः १. द्यूतकार: देवीसमीपे कथं गतः ? तत्र गत्वा तेन किं कृतम् ?
२. सिद्धदत्तेन सा पुस्तिका कुतः लब्धा?