________________
६० • सुलभ चरित्राणि
तद्भिया सर्वे लोकास्त्रस्ताः । तदा एषोऽपिमामेकाकिनीं गजेन्द्रमुख एव त्यक्त्वा नष्टः । ततः सत्पुरुषेण कृपावताऽनेन ४२ प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता । ततो मयाऽचिन्ति यो मां चत्वरिकान्तरे चैवंविधे कष्टे गते ४३ त्यक्त्वा गतस्तस्याऽग्रे ममोपरि कः स्नेहो भावी ? ममाऽप्यनेनैवंविधेन का रक्षा भाविनी ? इत्यसौ त्यक्तः । येन चाहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीतिर्भाविनी । एतस्य कुलगोत्रादिकमपि तादृगद्भुतशौर्यधैर्यगाम्भीर्यादिगुणैरेव मया ज्ञातम् । अतो मयाऽयं गुणवान् परिणीत एव । ततस्तस्याश्चातुर्येण प्राप्तव्यमर्थिकधैर्येण च विस्मितो नृपः प्राप्तव्यमर्थिकपार्श्वे स्वकुलगोत्रादिकं प्रश्नयामास । ततस्तेन गाढस्वरेणोचे- 'प्राप्तव्यमर्थं लभते मनुष्य' इति । अत्रान्तरे तत्रासन्नोपविष्टया त्रैलोक्यसुन्दर्या एष सर्वोऽपि वृत्तान्तोऽश्रावि । 'अहो ! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्यक्तः । एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसम्भूतमपि ४४ वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वरयत इति । ततो ममाऽप्येष एव वरोऽस्तु' । इति निश्चित्य त्रैलोक्यसुन्दर्याभाणि - 'दैवो न तल्लङ्घयितुं समर्थः ' । इत्युक्ते राज्ञा पृष्टम् 'किं कथयसे वत्से' ? ततस्तयोचे - “तात ! श्रूयताम् - यदा युष्माभिर्मां यौवनवयप्राप्तां ज्ञात्वा वरायोपक्रान्तम् ४५, तदा मयाऽचिन्ति तातो महाकुलोद्भवं महर्द्धिकं वरं विलोकयिष्यति । मम तु कलावानभिरुचित इति । ततो मया वीरसेनेन सह सङ्केतः कृतोऽभूत् । परं स कस्मादपि (कारणात्) नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त" इति । ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच - " तस्मान्न शोको न हि विस्मयो मे" इति ततो राज्ञा पृष्टा साऽप्युवाच सर्वं निजवृत्तान्तम् । ततो वसुमती दृढीकरणाय श्लोकपूरणाय चाकथथयत् – “यदस्मदीयं न हि तत्परेषाम्" इति। एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम् - युवराजपदे स्थापितः, पञ्चशतग्रामा दत्ता । एवं वधूत्रययुतः ४६ सिद्धदत्तः सुखलीलया कालं गमयति ।