________________
धर्मप्रभावे सिद्धदत्तकथा • ५९ हस्तिशालायाः कश्चनाऽपि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य३४ निर्जगाम । स हस्ती राजमन्दिरान्नगरे भ्रमन् हट्टश्रेणि पातयन् वृक्षमालामुन्मूलयन् निनादाभिमुखमागच्छन् लोकलक्षास्त्रासयन्३५ चत्वरिकायामेवागतः । तदर्शनाल्लोकाः सर्वे दिशोदिशं नेसुः । वसुदत्तोऽपि वधू त्यक्त्वा भयभ्रान्तो नष्टः । गजो मण्डप-चत्वरिकादि पातयन् वध्वासन्न३६ एव गतः । अत्रान्तरे तन्नासन्नस्थेन प्राप्यव्यमर्थिकेनाऽचिन्ति-'आः ! कष्टमनर्थो भावी । एतस्याः कन्याया विनाशो भावी । ततः करोमि रक्षामेतस्याः' । इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनः कुम्भस्थले जघान । एवं लब्धलक्ष्यत्वेन भ्रमयित्वा विलक्षीकृत्य३७ वशीकृतस्तेन३८ गजः । बद्ध्वाऽर्पित आरक्षकाणाम् । तैश्च हस्तिशालायां बद्धः । ततः सर्वं स्वस्थं जातम् । पुनः सर्वे वरपक्षजा३९ वधूपक्षजाश्च मिलिताः । तेषां सर्वेषा शृण्वतां वध्वाऽभाणि- "अहं येन हस्तिनः पार्थात् त्राता स एव मम वरः । तं विनाऽन्यं प्राणान्तेऽपि नेच्छामीति" । इति कन्यावचः श्रुत्वा वरपक्षजा जगुः - "अस्माकं वरो मण्डपे चत्वरिकायामागतो विवाहं कृत्वैव यास्यति कन्याऽपि यस्मै दत्ता तस्यैव नान्यस्य भवति" इति । ततो वधूपक्षजैरूचे४०-वरः स एव यं कन्या वाञ्छति । वरः कोऽपि अन्यो न भवति इति । एवमुभयेषां कलहो जातः । तं कलहं श्रुत्वा राज्ञा कश्चिज्जनः पृष्टः किमिति । तेनोचे कलहस्वरूपम् । ततः सर्वे कलहायन्तो नृपसमीपे आगताः । प्राप्तव्यमर्थिकोऽपि सार्धमागतः । ते राजमन्दिरे आगता विवदमाना राज्ञा पृष्टाः - 'कस्माद् यूयं विवदथ' ? वरपक्षजैरूये - 'स्वामिन् ! अनेन जिनदत्तेन पूर्वं स्वसुताऽस्मद्वराय दत्ता । अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति 'नाहं वरं करिष्य' इति । ततो राज्ञा पृष्टो जिनदत्त उवाच - 'राजन् ! अहं न जाने, एषा मम पुत्र्येव जानाति' । ततो नृपेण सा पृष्टा - 'त्वं कस्मादेनं त्यक्त्वा एनमज्ञातकुलगोत्रं४१ भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे' ? इति । ततः सोचे - "स्वामिन् ! श्रूयताम् । यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽगात् ।