________________
५६ • सुलभ-चरित्राणि
यावता विष्ठायै चलति तावता देव्या भीतया गोपिता जिह्वा । प्रातर्लोकाः समागताः । जिह्वां गोपितां दृष्ट्वा हृष्टाः, “मङ्गलं जातम्' ।
“एवं काले याति अन्यदा द्यूतकृता ११ रमता १२ बहुहारणे देव्याः पूजादिकं कृतम्। परं सा किमपि न ददाति । ततो द्यूतकारः लोष्टमुत्पाट्योत्थितः 'चेन्न दत्से तर्हि भङ्क्षयामि भवतीम्' इति वदन्। ततो भीतया देव्या तस्यैषा पुस्तिकाऽर्पिता । दीनारपञ्चशत्या विक्रेयेति चोक्तम् । ततः स पुस्तिकां गृहीत्वा नगरान्तर्गो १३ विक्रीणानो लोकैर्मूल्यं पृष्टः आह (५००) 'पञ्चशतानि दीनाराणाम् ' । ततो लोकैर्हसितः स मम हट्टे आगतः । मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति" ।
I
I
ततः सिद्धदत्तेन सा पुस्तिका च्छोटयित्वाऽवाचि । 'प्राप्तव्यमर्थ१४ लभते मनुष्यः' इति पदं तस्य रुचितम् । ततो निरन्तरमेतत्पदं पठन् नगरे नित्यं भ्रमति । ततो लोकैस्तस्य 'प्राप्तव्यमर्थिक' इति नाम दत्तम् । एवं नगरे प्रसिद्धो जातः ।
1
इतश्च नगरेऽरिमर्दनराज्ञः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता १५ उपाध्यायस्य पार्श्वेऽधीते । सा चाऽधीतसकलकला प्राप्तयौवना वरार्थिनी१६ चिन्तयामास तातो महर्द्धिकं १७ महाराजपुत्रं वरं मे दास्यति । मम तु कलावानेवाऽभिरुचितः, किं महर्द्धिकत्वेन ! यतः
"
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥१॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥२॥
इति विचिन्त्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधान
-