________________
[१०] ॥धर्मप्रभावे सिद्धदत्तकथा ॥ प्राप्तव्यमर्थं लभते मनुष्यो, दैवो न तल्लङ्घयितुं समर्थः । तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं नहि तत्परेषाम् ॥१॥
चन्द्रप्रभायां नगर्यामरिमर्दनो राजा राज्यं करोति । तत्र धनपतिः श्रेष्ठी, धनवती प्रिया, तयोः पुत्रः सिद्धदत्तः । एकदाऽभाग्ययोगेन तस्य गृहे मारिरुत्पन्ना । ततः प्रातिवेश्मिकैरचिन्ति एतस्य गृहान्मारिर्बहिनि:सरिष्यति, अस्माकं च लगिष्यतीति धनपतेर्गृहस्य द्वाराणि निर्दयत्वेन पिहितानि । ततः कियत्स्वपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विपन्नम् । ततः सिद्धदत्तो भाग्यान्नीरोगो लघुत्वेन रिडन् गृहखालेन बहिनिःसृतो नगरे भ्रमति । लोकास्तस्मै अनुकम्पया भोजनाच्छादनादि ददति । एवं सिद्धदत्तो वर्द्धते । एकदा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः । तत्र चैकां पुस्तिका दृष्ट्वा पृष्टम् - "कैषा पुस्तिका, कथमायातेति ?" ततस्तेन व्यवहारिणोक्तम्"शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वस्वः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनाऽपूपान् भक्षयति । एकदा क्रुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता । ततस्तेन निःशूकत्वेन जिह्वायां थूत्कृतम् । देवता तथैव स्थिता । प्रातरागतैर्लोकदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् । तथापि जिह्वाया असंवरणे द्यूतकृदाह - यदि मे दीनारशतं ददत पूजायै, तदाऽहं प्रपूज्य शान्ति कुर्वे । पश्चाद् वस्त्रादि च मे देयम् । ततो लोकैर्दीनारशतं दत्तम् । रात्रौ तेन देवीभवने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् । तथापि जिह्वां न गोपयति । तदा तेनोक्तम्-"गोपय जिह्वां चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति', अधुना विष्टां क्षेप्स्यामि" । इत्युक्त्वा