________________
धर्मप्रभावे सिद्धदत्तकथा • ५७ सुतवीरसेनस्य स्वेन सार्द्धमेकोपाध्यायपार्वेऽधीयानस्य रूप-सौभाग्यकलाकौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना१८ सती एकदा रहसि तमुवाच यत्त्वया मम पाणिग्रहणं कार्यमिति । ततस्तेन कुमारेणोक्तम् - 'आवयोः क्व योगः ! यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति' । ततस्तयोक्तम्-'चेन्मदीयं वचः करिष्यसि तदा तवापि भव्यं भविष्यति, नो चेन्न' । ततस्तेन कुमारेण भीतेन प्रतिपन्नम् । तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्रौ १९ अहं गवाक्षे मञ्चिकां रज्जौ बद्धां मोक्ष्ये, तस्यामुपविश्य भवता मदीयावासोपरिभूमावागन्तव्यमिति । इति सङ्केतं कृत्वा स्वावासे गता । सङ्केतदिने चागते सा प्रच्छन्नं सर्वां विवाहसामग्री मेलयित्वा रात्रौ स्वावासोपरिभूमौ मञ्चिकां सज्जीकृत्य२० स्थिता । ततो वीरसेनेन चिन्तितम् - 'को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति' ? इति विचिन्त्य स सङ्केते नागतः ।
अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध२१ आगतः । तेन मञ्चिका२२ दृष्टा । स कौतुकी तस्यां कन्यामुक्तमञ्चिकायामुपविष्टः । ततस्तया ज्ञातमागतोऽसौ वीरसेनः । ततः सखीभिर्मञ्चिकामाकृष्य गृहीत उपरिभूमौ । स मौनं कृत्वा स्थितः । रात्रावन्धकारे परिणीतः सन् वादितः, स्वामिन्नुत्सूरे२३ कुतः समागतः ? ततस्तेनोक्तं - 'प्राप्तव्यमर्थं लभते मनुष्य' इति । तत उद्द्योतं कृत्वोपलक्षिते सा शुशोच, 'आः ! किं कृतं मया पापिन्या, ! जगत्यपि विदितो मूल् यया परिणीतः' । ततः सखीभिरुक्तम् - ‘मा विषादं कुरु, अद्याप्यावाभ्यामेव ज्ञातमस्ति । अन्यैः कैश्चिदपि ज्ञातं नास्ति । अत एष भापयित्वा मञ्चिकायां क्षिप्त्वाऽधो मुच्यते । ततो मुक्तो मञ्चिकायां क्षिप्त्वा तत उत्तीर्य स नगरे भ्रमन् २४प्रतोल्यासन्ने शून्यं २५तलारपल्यङ्कं दृष्ट्वा तत्र सुष्वाप । ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण वादित, उवाच 'प्राप्तव्यमर्थं लभते मनुष्य' इति । ततस्तेनोपलक्ष्योत्थाप्या२६-सन्नदेवगृहे प्रेषितः । स उत्थाय देवगृहे गतः ।
अत्रान्तरे तन्नगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगुणं वरमिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् । तां च प्रार्थयन्ती प्रति तेनोक्तम् - 'अहमेवं