________________
५२ • सुलभ-चरित्राणि
जातोऽस्ति' इत्युक्त्वा १४ पुष्पादिभृतभाजनयुतौ तौ दम्पती सन्ध्यासमये पूजार्थं गोत्रदेव्या आयतने स मुमोच । एवं तौ सन्ध्याकाले पूजार्थं गोत्रदेवीमन्दिरे गच्छन्तौ दृष्ट्वा हट्टस्थित श्रेष्ठिपुत्रः समुद्रदत्त उत्थाय तौ प्रत्युक्तवान्, 'अत्र सन्ध्यासमये पूजावसरो नास्ति,' इत्युक्त्वा तावेकान्ते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् । तदा सङ्केततस्तत्रागतेन पिङ्गलचाण्डालेन ज्ञातं यत्स एव पुरुषः समागत:, इति विचार्य तेन स श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिन्तितं चाद्य मया श्रेष्ठिनो मनोवाञ्छितं कार्यं विहितम् । अथ क्रमेण तत्र हाहारवो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप । अथ कुटुम्बिभिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्य १५ प्रभुश्चक्रे, अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वाञ्छां न व्यधात्, एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशना श्रवणानन्तरं दामनकेन पृष्टं, 'हे भगवन् ! कृपां विधाय यूयं मम पूर्वभवं कथयत, मुनिनोक्तं भो दामनक ! श्रृणु ।
अस्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनन्दाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुहृद् बभूव, एकदा तौ उद्याने गतौ, तत्रस्थं कञ्चनाचार्यं निरीक्ष्य सुनन्दो मित्रसहितस्तदन्तिके समागत्य स्थितः, आचार्येण देशना दत्ता, देशनामध्ये आचार्येण कथितम्, 'यो मनुष्यो मांसं भक्षयति स बहुदुःखभाग्नरकगामी च भवति' इति श्रुत्वा स जातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत्, तदादित: १६ स कदापि जीवहिंसां नाऽकरोत् । अथ कियत्काला - नन्तरं तत्र कल्पान्तकालोपमो १७ दुष्कालः पतित, सर्वे जनाश्च मांसभक्षणतत्परा जाता:, तदा सुनन्दस्य भार्या तं प्रति कथयति 'हे स्वामिन् ! त्वपि नद्यास्तीरे याहि, तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहीत्वाऽऽनय, येनास्मत् कुटुम्बस्य पोषणं भवेत्' । इति तयोक्तोऽसावुवाच 'हे प्रिय ! इदं कार्यं कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिंसा भवति, तदा तद्भार्ययोक्तं 'त्वं कैश्चिन्मुण्डकैर्बञ्चितोऽसि, अतस्त्वं दूरे याहि,' एवं भार्यया बहुशो निर्भर्त्सनात्सुनन्दो द्रहे मत्स्यान् निष्कासयितुं गतः । तत्रागाधे जले च