________________
श्रीदामनकचरित्रम् • ५१ नगरसमीपे समागत्य विश्रामहेतोरुद्यानस्थस्मरदेवकुले१० स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता । इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता, स्मरदेवं च प्रपूज्य यौवनावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे । इतस्तया तत्र निद्रितदामनकस्य पार्वे निजपितृमुद्राङ्कितो११ लेखो दृष्टः, हस्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदन्तं विज्ञाय तया चिन्तितम्, अहो ! मनोज्ञरूपो युवायं वर्त्तते, ममापि मानसमस्योपर्येव मोदते, अतोऽस्य यूनो विषदानतो मारमयोग्यमेव । इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थं बिन्दुं विलुप्य तस्य स्थाने "विषा" इत्यकरोत् । पुनस्तं लेखं मुद्रयित्वा दामनकस्य पटाञ्ले सा बबन्ध, ततः स्वयं च निजगृहे समागता, इतो घटिकानन्तरं दामनकः प्रबुद्ध:१२ शीघ्रं नगरमध्ये समागत्य तं लेखं श्रेष्ठिपुत्राय समुद्रदत्ताय दत्तवान् । समुद्रदत्तेन लेखं वाचयित्वा विचारितम्, यत्पित्रा लिखितमस्ति अस्मै "विषा" प्रदीयताम्, तस्मिन् विषये कोऽपि सन्देहो न कार्यः, अतो मयापि तदाज्ञानुसारेणैव कर्त्तव्यम्।
इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः, अथ विवाहादिनद्वयानन्तरं सागरपोतकर्णपथे सा वार्ता गोकुलमध्ये एव जनमुखात् समागता, तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः, मार्गे स मनसि चिन्तयति, मया यत्किञ्चिद्विधीयते तत्सर्वं विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यहं पुनरेनं व्यापादयामीति चिन्तयन्, स दुष्टात्मा पिङ्गलनाम्नस्तस्य मातङ्गस्य गृहे समागत्य तं प्रत्युवाच, अरे चाण्डाल ! स त्वया कथं न मारितः ? सत्यं वद ? चाण्डालेनोक्तं 'भोः श्रेष्ठिन् ! तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं बालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि' । अथ श्रेष्ठिनोक्तं 'भोः पिङ्गल ! अद्याहं तं दामनकं सन्ध्याकाले मम गोत्रदेव्या आयतने १३ प्रेषयिष्ये, तदा त्वया तत्र स हन्तव्यः,' अथ सन्ध्यासमये श्रेष्ठी गृहं समागत्य तौ वधूवरको प्रतीदमब्रवीत्, 'अरे ! युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न कृतम् ? यत्प्रसादादयं भवतोः सङ्गमो