________________
५०० सुलभ- - चरित्राणि
शिशुनापि सागरपोतस्य कोऽपराधः कृतो भविष्यति ? द्रव्यलोभतो मयापीदृक्कर्म नोचितं कर्तुम्, अतो मयाऽस्मै बालाय जीवितदानमेव देयम्, इति विचार्य स चाण्डालः कर्त्रिकया' तस्य शिशोः कनिष्ठाङ्गुलीं छित्त्वा तं प्रत्युवाच भो बाल ! अथ त्वमितो द्रुतं पलायस्व यदि जीवितं वाञ्छसि, अन्यथा त्वामनया कर्त्रिकयाऽहं व्यापादयिष्यामि तत् श्रुत्वा वाताहतद्रुम इव कम्पमानाङ्गः स ततः पलाय्य यस्मिन् ग्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः, तत्र नन्दाभिधानेनाऽपुत्रकेन गोकुलस्वामिना स पुत्रतया स्थापितः, अथ स चाण्डालस्तस्य कनिष्ठाङ्गुलीं गृहीत्वा सागरपोतस्य पार्श्वे समागत्यं तं तदभिज्ञानं७ दर्शितवान्, तद्दृष्ट्वा सागरोऽपि स्वमनसि सहर्षो जातः । चिन्तितवांश्च मया मुनेर्वाक्यं विफलीकृतम्, एवं स सागरपोतः सुखेन तिष्ठति ।
अथान्यदा स निजगोकुले गतः, तत्र नन्दगृहे छिन्नाङ्गलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णो जातः, नन्दं च पप्रच्छ, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्ध: ? सत्यं ब्रूहि ? तदा नन्देन कथितमस्य बालकस्य कनिष्ठाङ्गली' केनचित्कारणेन चाण्डालेन छेदिता, तद्भयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति । तत् श्रुत्वा सागरपोतेन विचारितं, नूनं मुनेर्वचः सत्यं जातम् । इति विचार्य चिन्तातुरः श्रेष्ठी स्वपुरं प्रति चलितुं प्रवृत्तः, तदा नन्देन कथितं 'भोः, श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातम्, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किञ्चिद् गृहकार्यं त्वया विस्मृतमस्ति ?' तदा श्रेष्ठिनोक्तं 'ममैकं महद् गृहकार्यं स्मृतिपथमागतम्, ततोऽहं शीघ्रं गच्छामि' । तदा नन्दो जगाद, चेद्भवंतां किञ्चिन्महत् शीघ्रं च करणीयं कार्यं भवेत्, तर्हि लेखं लिखित्वा ममास्य पुत्रस्य समर्पय, स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति । श्रेष्ठिनेऽपि तद्रुचितम् । अतोऽसौ लेखमेकं लिखित्वा दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः । अथ तस्मिन् लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत्, यदस्य लेखस्य समर्पयितारं प्रति त्वया निःऽङ्कमनसा विषं देयं, तस्मिन् कार्ये ममाज्ञास्ति । अथ दामनकस्तं लेखं गृहीत्वा