________________
[९] ॥ श्रीदामनकचरित्रम् ॥ मारेइ जो न जीवे, दयावरो अभयदाणसंतुट्ठो । दीहाऊ सो पुरिसो, गोयम ! भणिओ न संदेहो ॥१॥
यो जीवान्न मारयति यश्च दयावान् भवति पुनर्योऽभयदानं दत्त्वा सन्तुष्टो भवति स जीवो मृत्वा परभवे सम्पूर्णायुर्भवेत् । हे गौतम ! तद्विषये त्वं सन्देहं मा कृथाः ॥१॥
एवंविधः पुरुषो दामनकवद्दीर्घायुर्भवति, तद्यथा
राजगृहनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनाम्नी राज्ञी विद्यते, तत्र मणिकारः, श्रेष्ठी, तस्य च सुयशानाम्नी पत्नी, तयोः पुत्रो दामनकाख्योऽभूत् । स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ, दारिद्य्भावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति, अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्ठिनो गृहे आहारार्थं प्रविष्टौ । आहारं च गृहीत्वा यदा तौ बहिः समागतौ तदा ताभ्यां स भिक्षाचरो बालकस्तस्य द्वारि स्थितो दृष्टः,तं दृष्ट्वैकेन मुनिनोक्तं द्वितीयं मुनि प्रति, 'भो मुने ! नूनमयं बालोऽस्य गृहस्य स्वामी भविष्यति' । अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाकर्णितं, तेन च स वज्राहत इव सञ्जातः, चिन्तितं च तेन अहो ! मयाऽनेकैः कष्टैर्मायावीभूयाऽयं विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रङ्कः स्वामी भविष्यति, गुरुवचनमप्यन्यथा नैव भवेत्, अत एनं शिशुं केनाप्युपायेनाहं मारयामि तदा वरम्, इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चाण्डालपाटके' पिङ्गलाख्यचाण्डालस्य गृहे मुक्तवान् । पश्चात्स स्वयमपि तस्य चाण्डालस्य गृहे गतः, तत्र गत्वा तेन तं चाण्डालं प्रत्युक्तमहं तुभ्यं मुद्रापञ्चकं दास्ये । त्वमेनं शिशुं शीघ्रं हत्वा मां दर्शयेः, इत्युक्त्वा स निजगृहं गतः, अथ स मातङ्गस्तं बालकं सुरूपं वीक्ष्य करुणापरोऽभूत् । ततोऽसौ चिन्तयामास यदनेन