________________
४६ • सुलभ-चरित्राणि विक्रीय द्विरदं३७ गिरीन्द्रसदृशं क्रीणन्ति ते रासभम्, ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशयाः ॥१॥ ___ एवं वैराग्यवासितहृदयो यावत् स इलातीपुत्रो वंशाग्रस्थितो ध्यायति, तावत्स कस्यचिन्महेभ्यस्य३८ गृहे भिक्षार्थं प्रविष्टान् कांश्चिन्मुनीन् ददर्श, तदैव निजरूपनिर्जितरम्भा, दिव्यवस्त्रालङ्कारधारिणी, चन्द्रानना तस्य धनपतेर्वधूस्तेभ्यो मुनिभ्यो भिक्षादानार्थं हस्तधृतमनोहरमोदकस्थाला३९ तदग्रे समागत्य स्थिता। परं ते मुनयस्तां ललनां निजदृष्ट्यापि न विलोकयामासुः । ततो गृहीतभिक्षास्ते४० साधवस्ततो मह्यामेव न्यस्तदृष्टयो निवृत्ताः । एवंविधान्निगृहीतेन्द्रियांस्तान् मुनीन् दृष्ट्वा स इलातीपुत्रो निजहृदि दध्यौ, धन्या एते मुनयस्त एव वन्दनीयाः । यत:
ते कह न वंदणिज्जा, रूवं गुण परकलत्ताणं । धाराहयव्व वसहा, वच्चंति महीं पलोअंता ॥१॥ अलसा होइ अकज्जे, पाणीवहे पंगुला सया होइ । परतत्तीसु४१ य बहिरा, जच्चंधा परकलत्तेसु ॥२॥
अहं त्वस्यां नीचकुलोत्पन्नायामपि नटकन्यायां विषयसेवनवाञ्छया लुब्धो जातोऽस्मि, अतो मां धिगस्तु । एवमात्मनिन्दातत्परस्य शुभभावदृढचित्तस्य, शुभध्यानाधिरूढस्य च तस्येलातीपुत्रस्य तत्रैव वंशोपरिस्थितस्य केवलज्ञानं समुत्पन्नम् । तदैव ४२शासनदेवतादत्तमुनिलिङ्गोऽसौ कनककमलस्थितो भूपादीनामाश्चर्य४३ जनयन् धर्मोपदेशं दत्तवान् । यथा
भो भव्या इह संसारे, मानुष्यमतिदुर्लभम् । लब्ध्वा पाथोनिधेर्मध्ये,४४ चिन्तारत्नमिवामलम् ॥१॥ दानशीलतपोभाव-मये धर्मे चतर्विधे । यतनीयं भवद्भिश्च, स्वर्गमोक्षसुखार्थिभिः ॥२॥ युग्मम् । ___ इत्यादिधर्मोपदेशमाकर्ण्य राज्ञा तस्येलातीपुत्रस्य केवलिनो मुनेः पृष्टं, 'भो मुनिराज ! भवतोऽस्यां नटकन्यायां रागः कथमभवत् ?' तत् श्रुत्वा स केवली जगौ, 'पूर्वं वसंतपुराख्ये नगरे भूपपुरोहितो मदननामा द्विजोऽभूत् । तस्य