________________
श्रीइलातीपुत्रचरित्रम् • ४५
परिणयनोत्सुको द्रव्योपार्जनार्थं लङ्खिकादिपेटकयुतो बेन्नातटाख्ये३२ पुरे समेत्य तत्रत्यमहीपालं विज्ञपयामास, 'हे राजन् ! वयं तवास्मदीयनृत्यकलां दर्शयितुं वाञ्छम:, ' तत् श्रुत्वा भूपेनोक्तं 'सुखेन युष्मदीयां नृत्यकलां मे दर्शयध्वम्, तद् दृष्ट्वा हृष्टोऽहं युष्मभ्यं भूरिदानं दास्ये' । अथैवं नृपादिष्ट इलातीपुत्रो भूरिधनलाभलोलुपो नानाऽभिनयबन्धुरं तथाविधं मनोहरं प्रेक्षणं चकार, यथा सर्वेऽपि लोका निजहृदयेषु चमत्कारं प्राप्ताः । तदानीं च तालानुसारेण पटहं वादयन्तीं तां रूपतिरस्कृतदेवाङ्गनां लजिकपुत्रीं दृष्ट्वा मदनबाणविद्धो राजा हर्तुकामोऽभूत् । ततश्चेलातीपुत्रमरणं वाञ्छन् स तं जगौ, 'भो इलातीपुत्र ! त्वं वंशोपरिविलग्नो नृत्यं कुरु,' एवं नृपादिष्टः स वंशोपरिस्थितस्तथा नृत्यं चकार, यथा राजादयः सर्वेऽपि लोका निजहृदयेषु भृशमाश्चर्यं प्राप्ताः पुनस्तेन क्रूरहृदयेन ३३ राज्ञा प्रोक्तं त्वमथाकाशे निराधारो भूत्वा नृत्यं कुरु, ' तत् श्रुत्वा तेनेलातिपुत्रेणापि तथैवं विहितम् । अथैवं नृत्यं कुर्वतोऽपि तस्येलातीपुत्रस्य मरणमजातं विलोक्य नृपो निजकुटिलाशयेन तस्य पार्श्वे वास्त्रयमेवमेव निराधारं नृत्यं कारयामास । अथ चतुर्थवारके नृपादेशेन वंशोपरि चटित इलातीपुत्रस्तं नृपं निजप्रियायामसक्तमानसं निजमारणाभिलाषं च कुर्वन्तं स्वबुद्ध्या विज्ञाय चिन्तयामास, अहो ! विषयवैषम्यं ३४ धिक् ! अयं राजापि मदनबाणविद्धो नीचकुलोत्पन्नायामप्यस्यां नट्यामासक्तो जातोऽस्ति, ततश्च मां मारयितुं पुनः पुनर्नृत्यंकारयति । अरे रे ! स्वर्गीयदेवाङ्गनोपमे सत्यपि निजान्तः पुरे कामविह्वलोऽयं नृप एतस्यामेवासक्तो जातः, धिगस्तु कामविकारम् । यतः
"
स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति ॥ १ ॥
अरे रे ! मया मातापित्रोर्वचनमुल्लङ्घ्यैवंविधमकार्यं ३५ कृतम्, निर्मलेऽपि कुले केवलं विषयसुखवाञ्छया कलङ्को दत्तः, अतो मां धिगस्तु | एवंविधा विषयासक्तिर्मयात्रैव दुःखपरिणामरूपाऽनुभूता । यतः
-
ते धत्तुरतरुं३६ वपन्ति भुवने प्रोन्मूल्य कल्पद्रुमम्, गृह्णन्ति खलु कर्करं निजकरे प्रक्षिप्य चिन्तामणिम् ।