________________
४४ • सुलभ-चरित्राणि मदीयामिमां पुत्री परिणेतुमिच्छा वर्तते, तदायमस्मदीयपेटके समायातु, अस्माभिः सह भोदनादि कुर्वन्, नटकलाभ्यासं च कुर्वन्, स सुखेन निजकालं गमयतु । अहमपि च तं नटकलाकुशलतया धनमर्जयन्तं विज्ञा सुखेनैवैनां मदीयां कन्यां तस्मै दास्यामि' । अथ तत् श्रुत्वा खिन्नोऽपि स श्रेष्ठी निजतनयात्मघातभीतः सन् नटोक्तं सर्वमपि स्वीचकार२५ अथ तं नटं विसर्म्य स श्रेष्ठी पुनरपि निजसुतपाइँ गत्वा तं प्रतिबोधयामास । परं तस्यां नटतनयायामासक्तेनेलातीपुत्रेण निजाग्रहो न परित्यक्तः । एवं जनकोपदेशमवमन्य स विषयाभिलाया द्रुतं तत्र लङ्खिकनटपेटके गतः । तदा तेन नटेनापि तस्मै प्रोक्तम्, 'भो इलातीपुत्र ! यदि त्वमस्मदीयां नृत्यकलां शिक्ष्यसे, तदा तुभ्यमेनां कन्यां दास्यामः, एवं लडिकादिष्टोऽसौ कामार्थी परमानन्देन नृत्यकलाभ्यासं कर्तुं लग्नः । यतः-कामाशुगै:२६ स्वान्त-कुम्भे जर्जरिते सति ।
स्तोकमप्युपदेशाम्भः, क्षिप्तं सन्तिष्ठते कथम् ॥१॥ . अपसर सखे दूरादस्मात् कटाक्ष-विषाननात्, प्रकृतिविषमाद्योषित्सद्विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैचटुलवनिताभोगैर्ग्रस्तं२७ त्यजन्ति हि मन्त्रिणः ॥२॥ नपुंसकमिति ज्ञात्वा, स्त्री प्रति प्रेषितं मनः । तत्तु तत्रैव रमते, हताः पाणिनिना२८ वयं ॥३॥ प्राणानपि विमुञ्चन्ते, स्त्रीशस्त्रीदीर्णवक्षस:२९ । पुरुषा मदनासक्ता, मत्स्या वा, गललोलुपाः ॥४॥
अथ प्रज्ञाप्रकर्षत्वात् स इलातीपुत्रः स्तोकेनैव कालेन नृत्यकलासु कुशलो बभूव । अथ स लङ्खिकस्तं ३१नृत्यकलाकुशलं विज्ञाय कथयामास । 'भो वत्स ! अथ त्वं तूर्णं स्वनृत्यकलादर्शनतो द्रुतं द्रव्यमर्जयस्व, येन महोत्सवपूर्वकं तुभ्यमेषा मनोहरा कन्या दीयते । ततः स इलातीपुत्रस्तन्नटकन्या