________________
श्रीइलातीपुत्रचरित्रम् • ४३ त्वां विनाऽधृतिं करिष्यति, इति पुनः पुनस्तैरुक्तः स विमनस्कः कथञ्चित्तैस्तद्गृहे नीतः, तत्र शयने सुप्तोऽप्यसौ क्षणमपि समाधि न लभते स्म । अथ तथावस्थमसमाधिगतं निजतनयं वीक्ष्य श्रेष्ठी तं पप्रच्छ, 'भो वत्स ! अद्य त्वमेवं दुर्मनायित:१६ कथं दृश्यसे ?' किं केनापि तवापराधः कृतोऽस्ति ? किंवा केनापि किञ्चित्तवापमानं कृतमस्ति ? एवं श्रेष्ठिना मुहुर्मुहः पृष्टोऽपि मुनिरिव मौनामाश्रितोऽसौ किञ्चिदपि न जल्पति, केवलमुष्णनिःश्वासानेव मुञ्चति स्म । ततः श्रेष्ठी तान् दुर्ललितान् तद्वयस्यान् समाहूय निजपुत्रस्य दुर्मनःकारणं पप्रच्छ। तदा ते प्रोचुः, 'हे श्रेष्ठिन् ! अद्योद्यानेऽस्माभिः सहागतेनानेन कुमारेण लङ्खिकाख्यनटस्य मनोहरा कन्या नृत्यन्ती दृष्टास्ति । ततः प्रभृति मदनबाणैर्हतोऽयं तां परिणेतुकामो जातोऽस्ति' । इत्युक्त्वा लब्धपारितोषिकास्ते तु ततश्चलिता निजस्थाने ययुः ततः श्रेष्ठी पश्चात्तापं कुर्वन् निजपुत्रं प्रति जगाद, 'भोः पुत्र ! त्वं कुलीनः वणिक्पुत्रोऽसि, इमां चाकुलीनां नटकन्यां परिणेतुं कथमीहसे? अहं ते रूपलावण्यादिगुणगणोपेता भूरिशो वणिक्कन्याः परिणाययिष्ये' । एवंविधानि पितुर्वचनानि श्रुत्वा स इलातीपुत्रोऽभाषत, 'हे तात ! अहमेतत् सर्वमपि जानामि, यन्नटकन्यापरिणयनं मे वणिक्रेष्ठिपुत्रस्य केवलमयोग्यमेवास्ति, परं किं करोमि ? मदीयं मनस्तस्यामेव नटकन्यायामासक्तीभूतं वर्तते' । यतःयत्र यस्य मनः सक्तं, शर्म तत्र स मन्यते । मृद्वीकां१७ १८करभस्त्यक्त्वा, १९स्नुहीमेवात्ति भावतः ॥१॥
एवंविधं निजपुत्रवचो निशम्य पश्चात्तापपरः स श्रेष्ठी दध्यौ, अरे रे! मया स्वयमेवाविचारितं कार्यं कृतम्, यदस्य तेषां दुर्ललितानां२० कुसङ्गतिः कारिता, तस्याश्च कुसङ्गत्या एवंविधं कटुफलं प्रादुर्भूतम् । अथायं केनाप्युपायेनास्मात् दुराग्रहान्निवारयितुमशक्योऽस्ति । निषिधश्च स तदासक्तचित्तः चेदात्महत्यां करिष्यति, तदा मे का गतिर्भाविनी ? इतो व्याघ्र इतस्तटी इति न्यायो मम समापतितोऽस्ति । इत्यादि ध्यात्वा विषण्णीभूत:२१ स श्रेष्ठी तं लङ्खिकं२२ नटपेटकस्वामिनमाकार्य कथयामास, 'भोः लङ्खिक ! त्वं मदीयपुत्राय२३ त्वदीयां२४ कन्यां देहि ?' तत् श्रुत्वा स लडिकः स्पष्टमभाषिष्ट, 'भो श्रेष्ठिन् ! चेत्त्वदीयपुत्रस्य