________________
४२ • सुलभ- -चरित्राणि
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी', सत्यं सूनुरयं दया च भगिनी भ्राता मन:संयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः ॥ १ ॥
इत्यादि वैराग्यमेव भावयन् स्त्रीसङ्गं केवलं नरकप्रदमेव स मन्यते स्म। अथैवं वैराग्यपरं निजपुत्रं त्रिवर्गशून्यमेव " मन्यमानस्तस्य जडबुद्धिः पिता तं विषयकुशलं विधातुमिच्छति स्म । अथासौ नगरमध्यात्कांश्चन दुर्ललितान् सप्तव्यसनोपेतान् वेश्यागमनप्रवीणान् यूनो निजपार्श्वे समाहूय कथयामास, 'भोः पुरुषाः ! यूयमेनमिलातीपुत्रं मम तनयं युष्मत्सार्थे गृहीत्वा स्त्रीविषयादिषु प्रवीणं कुरुध्वम्, तत्र च यद्द्रव्यादि युज्यते, तत्सर्वं ममाग्रतो ग्राहम्,' एवं तदुक्तानि वचनानि श्रुत्वा प्राप्तदुग्धा ११ बिडाला इव प्रहृष्टमानसास्ते दुर्ललिताः कथयामासुः । 'भोः श्रेष्ठिन् ! एतत्त्वस्माकं कार्यमेव, स्तोकेनैव कालेन वयमिममिलातीपुत्रं सर्वविषयेषु कुशलं करिष्यामः,' अथ श्रेष्ठ्यपि तं निजपुत्रमिलातीपुत्रं समाहूय कथयामास, 'भोः पुत्र ! अद्यप्रभृति एते सज्जनास्तव मैत्रीं कर्तुं वाञ्छन्ति, अतस्त्वमप्येभिः सह गत्वा सकलव्यवहारकुशलो भव, एते सर्वप्रकारैस्तव मानसमानन्दयिष्यन्ति' । एवं निजताताऽऽदिष्टः स इलातीपुत्रोऽपि तैः सह चलितः ।
अथ तं दुर्ललिता वसन्तोत्सवे जाति - केतकी- चम्पका -ऽशोकचूतादीनां१२ प्रफुल्लकुसुमादिभिः सुरभीभूते उद्याने तमिलातीपुत्रं निन्युः, इतस्तत्र लङ्खिकाख्यनटस्यैका कन्यका तत्र नृत्यन्ती तेन इभ्यपुत्रेण दृष्टा । सा च यौवनवती रम्भेव रूपलावण्यादिसम्पन्नाभूत् । तां च दृष्ट्वा दैवयोगात्पूर्वभवस्नेहेन स भृशं कामातुरो बभूव । तां च परिणेतुकामः स तत्र तां पुनः पुनर्विलोकयन् निश्चेष्टः १३ कीलित १४ इवाजनि । अथेङ्गिताकारज्ञानकुशलास्ते १५ दुर्ललितास्तां तथाविधं कामदशाविह्वलं विज्ञाय निजप्रयासं च सफलं मन्यमानाः, श्रेष्ठितश्च भूरिद्रव्यपारितोषिकलाभं ध्यायन्तस्तत्र स्तम्भितं तमिलातीपुत्रं कथयामासुः, भो मित्र ! अथेतो निजगृहे गम्यते, यतस्तव पिता