________________
[८] ॥श्रीइलातीपुत्रचरित्रम् ॥ अनित्यत्वादिकां शुद्धां, भावनां स्मरता हृदि । इलातीतनयस्येव पुंसा मुक्तिरवाप्यते ॥१॥
इहैव जम्बूद्वीपे भारते क्षेत्रे इलाभूषणा' इलावर्धनाख्यारे पुरी बभूव । तत्र नराधिपशतसेव्यो न्यायाध्वना राज्यं पालयन् जितशत्रुनामा राजाभूत् । तत्रैको व्यापारिशिरोमणिरिभ्यनामारे श्रेष्ठी वसति स्म । तस्य च शीलादिगुणगणधारिणी धारिण्यभिधा भार्यासीत्, संसारसुखानि भुञ्जानयोरपि तयोः किञ्चिदपत्यं नाभूत्, तेन च तौ दम्पती निजमनसोर्दुःखं मन्यमानावास्ताम्, अथान्येद्युस्ताभ्यां श्रीजिनाधिष्ठायिकाया इलादेव्याः पुत्रप्राप्त्यर्थमाराधनं कृतम्, प्रोक्तं च यद्यावयोः पुत्रो भविष्यति तदा भवत्या नामाङ्कितं तस्य पुत्रस्याभिधानं करिष्यावः, अथैवं धर्मध्यानपरयोस्तयोः क्रमात् पुत्रो जातः, तदा तस्य महताडम्बरेण जन्मोत्सवं विधाय प्रतिपन्नवचनानुसारेण ताभ्यां तस्य सुतस्य "इलातिपुत्र" इति नाम विहितम् । अथैवं धात्रीभिर्लाल्यमानोऽसौ क्रमेण वृद्धि प्राप्नुवन्नष्टवार्षिको जातः ततोऽसौ पितृभ्यां कलाभ्यासार्थं पाठशालाया-माचार्यसन्निधौ मुक्तः, तत्रासौ प्रयासं विनैव सकलकलाभ्यासपूर्वकं विषमाण्यपि शास्त्राणि सूत्राथैः सहाभ्यस्तवान्, अथ स यौवनं प्राप्तोऽपि कलसविषयेभ्यः पराङ्मुखीभूय विशेषतस्तरुणीभ्यो मनागपि निजमनो न दत्ते स्म । किन्तु साधुजनानां सङ्गं कुर्वन् सदा निजमनसि वैराग्यमेव भावया-मास, यथासन्तोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने जपे ॥१॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्त्रेषु, प्राज्ञ एको न लभ्यते ॥२॥