________________
श्रीवङ्कचूलचरित्रम् • ३५ ततो व्यावृत्त्याटव्यां कस्यापि तरोरधस्तान्निषण्णः, तत्र च क्षुधापीडितैः कियद्भिभिल्लैरिस्ततो भ्रमद्भिः क्वापि निकुञ्जे१२ सुरभिगन्धसद्वर्णपरिपक्वफलैर्नम्रीभूतं किम्पाकतरुं वीक्ष्य सद्यस्तत्फलानि समादाय वङ्कचूलाग्रे ढौकितानि, तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टम्, तैरुक्तं स्वामिन्नेषां नाम तु केनापि न ज्ञायते । परं स्वादुत्वमधिकं विद्यते, अतो भक्षणीयानि । तेनोक्तमज्ञातं फलमहं नाश्नामि, ममायं नियमोऽस्ति ।' ततः पुनस्ते साग्रहं प्रोचिरे 'स्वामिन् ! सौस्थ्ये१३ नियमाग्रहः क्रियते, साम्प्रतं प्राणसन्देहे कोऽयं नियमाग्रह: ? तस्मादेतानि भक्षय' इति तद्वचः श्रुत्वा क्षुत्पीडितोऽपि सन् सधैर्यं प्राह, 'भो ! इदं वचो न वक्तव्यम्, यदि, प्राणा यान्ति, तर्हि अधुनैव यान्तु, परं स्ववाचा गुरुसमक्षं स्वीकृतो नियमः स्थिरीभवतु' । ततस्ते सर्वेऽपि भिल्लास्तानि फलानि स्वैरं भक्षयित्वा तृप्ताः सन्तस्तरुच्छायासु स्वपन्ति स्म । परमेक: सेवको वङ्कचूलस्यानुरोधेन१४ तानि न भुक्तवान् ।।
अथ स्वयं शयित्वोत्थितः पल्लीशः स्वपार्वे सुप्तं भृत्यमुत्थाप्येति प्रोचिरे, 'भो ! सर्वान् शीघ्रं जागरय, यथा स्वस्थानं गच्छामः' । तेनापि शब्देन करस्पर्शेन च सर्वेऽप्युत्थापिताः, परं कथमपि नोत्तिष्ठन्ति स्म । तदा तान् सर्वानपि गतप्राणान्१५ मत्वा पल्लीशाय तत्स्वरूपं निवेदितम्, सोऽपि श्रुत्वा विस्मितः सन् स्वनियमं सफलीभूतममंस्त । ततोऽहो गुरूवाण्या माहात्म्यं, यत्स्वल्पयाऽपि तयाऽधुनाहं जीवन् रक्षितो । मया निर्भाग्येन प्राक्सर्वेष्टसिद्धिविधायक: कल्पतरुरिवाकस्मादुपस्थितः श्रीगुरूणां वाक्प्रसरो१६ वृथैव वर्जित इत्यादि चित्ते विभावयन्, स पल्लीशो हर्षविषादाभ्यां सह रात्रौ स्वपल्ली सम्प्राप्तः । तत्र च स्वगृहचरितं द्रष्टुं प्रच्छन्नवृत्त्या गृहमध्ये प्रविश्य दीपकप्रकाशात्पुरुषवेषया स्वभगिन्या सह सुप्तां स्वभार्यां दृष्ट्वा चिन्तयामास, एषा मे स्त्री दुराचारिणी,१७ अयं च कोऽपि दुराचारः पुमान् विद्यते एतौ दुष्टौ आशु२८ मारयामीति विचिन्त्यैकप्रहारेण तौ हन्तुं यावत्खड्गमुत्पाटितवान् तावदस्य द्वितीयो नियमः स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खड्गो द्वारदेशे स्खलितः,खड्गखाट्कारेण च सद्यो जाग्रता वङ्कचूला, 'हे भ्रातश्चिरं जीव' इत्यजल्पत्, ततो भगिनीं विज्ञायातिलज्जितः, स खड्गं संवृण्वन्