________________
३६ • सुलभ-चरित्राणि तां पुंवेषरचनाकारणं१९ पप्रच्छ । साऽप्यूचे, 'हे भ्रातरद्य सायंकाले त्वां द्रष्टुं नटवेषधरास्तव शत्रूणां चरा:२० समाजग्मुः, तदा मया चिन्तितम्, भ्राता तु सपरिच्छद:२१ क्वापि गतोऽस्ति, यद्येतेऽपीदं ज्ञास्यन्ति तीयमनाथा पल्ली शत्रुभिः पराभविष्यति, तस्मात् कोऽप्युपायः कार्य इति विचिन्त्याहं कैतवात्त्वद्वेषधारिणीभूया सभायामुपविश्यं तान् नृत्यं कारयित्वा क्षणाद्यथार्हदानतो २२विसालस्यादपरित्यक्तपुंषैव प्रातृजायया समं सुप्ता,' एतद्वृत्तान्तं श्रुत्वा वङ्कचूलो गुरुप्रसादादात्मानं भगिन्यादिहत्यापापादलिप्तं विभावयन् विशेषतो गुरुवाण्याः प्रशंसां चकार।
अथैकदा स चौर्यार्थामुज्जयिनी पुरीं ययौ, तत्र चार्धनिशायां कस्यापि धनिनो व्यवाहिरणो गृहे प्रविष्टः, परं कपद्दिव्ययभ्रान्त्या पुत्रेण सह विवदमानं२३ गृहपति विलोक्य धिगेतादृशां धनमिति विचिन्तयन् ततो निर्गतः, ततः स्तोकं स्तोकं जनाद्याचयित्वा सम्प्राप्तसम्पत्तिलवानां२४ द्विजानां धनेनाप्यलमिति विचिन्त्य तद्गृहाण्यपि मुक्तवान्, तदनन्तरं या ईषद्धनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्ठिनमपि सेवन्ते तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिन्तयति स्म
"चौर्यमाचर्यते चेत्तल्लुण्ट्यते खलु भूपतिः । फलते धनमक्षीण-मन्यथापि चिरं यशः" ॥१॥
इति विचिन्त्य वनाद् गोधामादाय२५ तत्पुच्छलग्न:२६ सन् राज्ञः सौधाग्रमारुह्यावासभुवने२७ प्रविष्टः, तत्र चाद्भुतरूपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता तया च कथितम्, 'कस्त्वं, किमर्थमत्रायातोऽसीति' प्रोक्तः सन्स प्रोचे 'अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वाञ्छन् इहागतोऽस्मि, ततस्तद्रूपलुब्धया राज्या मृदुवाण्या प्रोक्तम् 'हे सौम्य ! द्रव्यस्य का वार्ता, एतत्सर्वं तवैवास्ति, अथ किं कम्पसे, सुस्थो२८ भव, तव कुलदेवता तुष्टा, यदहं राज्ञः पट्टदेवी तव वश्या जाताऽस्मि, मयाऽद्य सौभाग्यगर्वेण राजाऽपि रोषितोऽस्ति, तादृश्या मया सह त्वमात्मानं सफलय, मयि तुष्टायां प्राणिनामर्थकामौ सुलभौ स्तः, मयि रुष्टायां तु सद्यो वधबन्धावेव स्याताम्,' इत्थं