________________
३०. सुलभ-चरित्राणि चौर्यकारिणं नागदत्तं शूलायामारोपयेः' इत्यादिश्य राजा स्वस्थाने ययौ । अथैवंविधं नृपादेशं निशम्य स्ववैरनिर्यातनार्थ२५ लब्धावसरं२६ स्वं मन्यमानः स तलारक्षो हृष्टो विडम्बनार्थं तं नागदत्तं खरोपरि आरोपयामास । ततस्तदादिष्टा राजसेवकास्तं शूलायामारोपयितुं वध्यभूमौ निन्युः । ततो वध्यवाजिन्त्रेषु वाद्यमानेषु तैर्यावत् स नागदत्तः शूलायामारोपितस्तावत्सा शूला सुवणसिंहासनरूपा जाता, तैर्मुक्ताः प्रहाराश्चाप्याभूषणरूपा जाताः तद् दृष्ट्वाश्चर्यं प्राप्तास्ते सर्वेऽपि राजपुरुषा भयभीता जाताः । ततः क्रमेण तदाश्चर्यं विलोकयितुं बहवो नागरिकास्तत्र समायाताः । क्रमेणाकर्णितैतद्वृत्तान्तो राजापि तत्र सम्प्राप्तः, तदा नागदत्तपुण्याकृष्टया शासनदेवतया तत्रागत्य व्योमस्थितया२७ नृपादीनां सर्वेषां नागरिकाणां समक्षं प्रोक्तम्, 'भो लोकाः ! अयं नागदत्तो महाभाग्यवान् विद्यते, अयं च महान् पुरुषोत्तमोऽस्ति, यतोऽसौ प्राणात्ययेऽपि२८ परकीयं वस्तु न गृह्णाति । पुरापि धनदत्तश्रेष्ठिनास्यार्पणाय स्वयं प्रतिपन्नं दीनारशतमपि नार्पितमस्ति,' इत्युक्त्वा शासनदेव्या तस्य नागदत्तस्य सर्वोऽपि वृत्तान्तो जनानामग्रे कथितः, एवं तेन दुष्टेन वसुदेवतलारक्षेण विहितमेनं सर्वमपि छलं प्रकटीकृत्य२९ सा शासनदेवताऽदृश्यीभूता । एतं वृत्तान्तं निशम्य राजादयः सर्वेऽपि लोका आश्चर्यं प्राप्ताः । अथ राजापि क्षमायाचनपूर्वकं तं नागदत्तं सन्मान्य पट्टकुञ्जरारूढं विधाय महोत्सवपुरस्सरं स्वगृहे समानीय बहुद्रव्यदानादिना सन्मानयामास, यतः
धम्मो मंगलमउलं, ओसहमउलं च सव्वदुक्खाण । धम्मो बलं च विउलं, धम्मो ताणं च सरणं च ॥१॥ धम्मो मंगलमुक्किटुं अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥२॥
ततो राजा तं धनदत्तं व्यवहारिणं निजपाइँ समाह्वयत् । तदा सोऽपि भयेन कम्पमानशरीरो नृपाग्रे समागत्य निजापराधक्षमायाचनपूर्वकं तस्मै नागदत्ताय दीनारशतं समर्पयामास । ततः क्रुद्धोऽसौ राजा तं दुर्जनं वसुदेवाभि