________________
श्रीनागदत्तचरित्रम् • २९ नागदत्तकीर्तिं निशम्य तमेव परिणयनार्थमुत्कण्ठिता बभूव । अथ तत्रैव नगरे वसुदेवाख्यो नगराधिपतिरक्षको वसति स्म, परं सोऽतीव धृष्टः कूटकार्यतत्परः१५ पौराणामप्रीतिपात्रं बभूव । तेन वसुदेवेन तस्या नागवसु-कन्याया रूपं विलोक्य मोहितेन परिणयनार्थं तत्पित्रोर्याचनं कृतं, परं नागदत्तोपरि निजपुत्रीप्रेम विज्ञाय प्रियमित्रसार्थपतिना तस्मै निजकन्या न दत्ता । ततः शुभदिवसे सा नागवसुकन्या गाढप्रेमपुरस्सरं नागदत्तेन परिणीता । एनं वृत्तान्तं विज्ञायातीवमत्सराभिभूतः स वसुदेव आरक्षकस्तं नागदत्तं क्वाप्यनर्थे पातयितुं सर्वदा छलं विलोकयामास । अथैकदा तस्य नगरस्याधिपतिर्हयवाहनक्रीडार्थं नगराबहिरुद्याने जगाम । तत्र क्रीडां कृत्वा पश्चाद् व्यावर्तमानस्य५ तस्य नृपतेः कर्णतोऽनाभोगात्१६ कुण्डलमेकंभूमण्डले निपतितम् । इतोऽदत्तादानपरिग्रहप्रत्याख्यानव्रतधारी स नागदत्तस्तस्मिन् मार्गे गच्छन्, तं कुण्डलं वीक्ष्य तं मागं विमच्य, मार्गान्तरेण१७ गत्वाष्टमीदिने वनमध्ये कायोत्सर्गध्यानेन स्थितः । इतः कुण्डलगवेषणार्थं निःसृतः स वसुदेवस्तलारक्षस्तत्र१८ मार्गे पतितं तं कुण्डलं दृष्ट्वा गृहीत्वा च विचारयामास, अहो ! अद्यं तं मम वैरिणं नागदत्तं कष्टे निपातयितुं समीचीनोऽवसरो लब्धोऽस्ति । इति विचार्य स दुष्टस्तलारक्षस्तं कुण्डलं वस्त्रमध्ये वेष्टयित्वा१९ यत्र स नागदत्तः कायोत्सर्गध्याने लीनः स्थितोऽस्ति, तत्र गत्वा तस्य पादाग्रे मुमोच । ततः स दुष्टस्तेन मार्गेण राजानं हयवाहनार्थं निनाय । तत्र कायोत्सर्गध्यानस्थितस्य तस्य नागदत्तस्य पादाग्रे पतितं कुण्डलोपेतं२० तद्वस्त्रमुत्पाट्य तन्मध्यस्थं तं रत्नकुण्डलं राज्ञे दर्शयित्वा स खसस्तलारक्षः प्राह, 'स्वामिन् ! यदा राजमार्गेऽहमुपविष्टोऽभवं, तदानेन नागदत्तेन तत्र गच्छता नीचैविनम्य किमपि गृहीतमासीत्, अथैतद्विलोकनेन ज्ञायते यत्तेन नूनं तत्र पतितमिदं भवतां रत्नकुण्डलं गृहीतम् अथात्र मार्गेऽस्मान् आगच्छतो विलोक्य वस्रवेष्टितं च तं कुण्डलमत्र गुप्तीकृत्य२१ स्वयं धूर्तीभूय२२ धर्मध्यानच्छलेनास्मान् प्रतारयितुं२३ मौनपरायणः स्थितोऽस्ति' । तलारक्षोक्तं तं वृत्तान्तं निशम्य, कुण्डलं चापि तत्रैव लब्ध्वा, तत्सर्वं सत्यं मन्यमानो भूपः क्रोधाभिभूतः सन् तं तलारक्षं प्राह । 'भो तलारक्ष ! एवंविधं दम्भं कुर्वन् स ईदृशं चौर्यकर्म करोति, तस्य नूनं शूला२४रोपणमेव क्रियते, अतस्त्वमेनं