________________
२८ • सुलभ-चरित्राणि एवं श्रेष्ठिना कथितोऽपि कोऽप्येतत् कार्यं कर्तुमुत्साहं न करोति स्म । तदा तेन यानेशेन धनदत्तश्रेष्ठिना प्रोक्तम्, 'यः कोऽपि तत्र गत्वा तान् भारण्डपक्षिण उड्डाययिष्यति तस्य नूनमहं दीनारशतं दास्ये' । तत् श्रुत्वा स साहसिको नागदत्तस्तत्र गत्वा गर्तामध्याद्यानपात्राऽऽकर्षणाय तान् भारण्डपक्षिण उड्डाययामास। तत्क्षणमेव तत्पक्षोत्पन्नेन प्रचण्डवायुना सकलमपि जलधिजलमुल्ललितम् । द्रुतमेवोच्छलद्भिरुदधिजलोमिभिरुत्पाट्य तद्यानपात्रं गातो बहिराकृष्टम् । ततः क्रमेणानुकूलवायुना प्रेरितं तत्प्रवहणं जनेप्सितस्थाने सम्प्राप्तम् । अथ स नागदत्तस्तत्र शैले स्थितः क्षुत्पिपासया पीडितस्ततो निर्गमनोपायं चिन्तयति स्म, यद्यहं क्षुत्पीडयाऽत्रैव मरिष्यामि, तदातध्यानतो मे दुर्गतिर्भविष्यति, तदधुनैव परमेष्ठिनमस्कारध्यानपरो जलधिजले पतित्वात्मघातं करोमि । इति विचिन्त्य स धर्मध्यानपरो नमस्कारान् ध्यायन् झम्पां दत्त्वा जलधौ निपतित एकस्य कस्यचिन्मत्स्यस्य मुखे प्रविष्टः । इतोऽसौ मत्स्योऽपि तरन् क्रमेण जलधितटे प्राप्तः, ततो यावत्तेन मत्स्येन निजं मुखं तत्र विकासितम् तावत् स नागदत्तोऽप्यवसरं लब्ध्वा द्रुतं तन्मुखादुच्छल्य बहिनिस्ससार । ततः कस्मिंश्चिज्जलाशये गत्वा जलं पीत्वा स्वस्थीभूय° स वनफलाद्याहारं चकार । एवं फलाहारादिभिः स्वनिर्वाहं कुर्वन् ग्रामाद्यामं परिभ्रमन् स क्रमेण निजनगरे समायातः । ततस्तेन तत्र तस्य धनदत्तश्रेष्ठिनः (पार्वे पूर्व प्रतिपन्नं दीनार १ शतं याचितम् । परं स धृष्टो लोभाभिभूतः) श्रेष्ठी तं न किञ्चिदप्यर्पयति स्म, प्रत्युत कथयामास च । 'भो ! कस्त्वं केन दृष्टः ? अहं त्वां नोपलक्षयामि, नूनं त्वमलीक-मेव जल्पसि' । तत् श्रुत्वा मनसि दूनो नागदत्तस्तमवदत्, यदि प्रतिपन्नं दीनारशतं त्वं मे नार्पयिष्यसि, तदैतद्वृत्तान्तं राज्ञे निवेद्य त्वां दण्डयिष्यामि' । तत् श्रुत्वा तेन धृष्टेन धनदत्तेनोक्तम्, 'यदि तव शक्तिर्भवति, तदा सुखेन स्वं चिन्तितं कुरु ?' अथ धर्मध्यानपरायणः स नागदत्तः परधनपराङ्मुखः१२ कस्यापि पतितं १३स्खलितं वा धनं न गृह्णाति । तेन जनमध्ये तस्य बह्वी प्रशंसा जाता । इतस्तत्रैव नगरे प्रियमित्राख्य एकः सार्थपतिर्वसति स्म, तस्यातीवरूपवती शीलादिगुणगणालङ्कृता नागवसुरित्यभिधाना तनया वर्तते क्रमाद्यौवनं प्राप्ता सर्वकलाकुशलीभूता१४ सा