________________
_ [६]
॥ श्रीनागदत्तचरित्रम् ॥ अदत्तं यो न गृह्णाति, परस्य दुःखितोऽपि सन् । नागदत्त इवाप्नोति, स मुक्तिकमलां' क्रमात् ॥१॥
वाराणस्यां नगर्यां जितशत्रुनामा नृपो राज्यं करोति स्म । तत्र चैको दत्ताख्यः श्रेष्ठी न्यवसत् । तस्य च धनश्रीरित्यभिधा प्रियासीत् । जिनधर्म सम्यगादरेण पालयतोस्तयोः क्रमादेकः पुत्रोऽभूत् । मातापितृभ्यां तस्य जन्मोत्सवं विधाय नागदत्त इति नाम विहितम् । क्रमेण बाल्यभावमुल्लङ्घ्य लेखशालायां प्रेषितोऽसौ नागकुमारः सकलकलाभ्यासं चकार । धर्मशालायां गतश्च मुनीनां पार्वे धर्मशास्त्रज्ञानमपि सम्पादयामास । अथैकदा पितरि पञ्चत्वं प्राप्ते स नागदत्तो द्रव्योपार्जनार्थमेकं यानपात्रमारुह्य भूरिभिर्जनैर्युक्तः परद्वीपे गन्तुं जलधिमध्ये प्रयाणमकरोत् । इतो जलधिमध्ये गच्छत् रेतत्प्रवहणमकस्मान्नीचस्थानस्थितजले गर्तामध्ये निपतितं । ततस्तद्यानपात्रस्य तद्गर्तामध्यावहिनिष्कासनाय नाविकैर्भूरियत्ने कृतेऽपि कथमपि तद्बहिर्न निस्ससार । व्याकुलीभूताः सर्वेऽपि यानपात्रस्थिता लोकाः शान्तिकपौष्टिकादिकार्याणि कुर्वन्ति स्म । परं तानि सर्वाणि कार्याणि निष्फलानि जातानि । तदा नागदत्तस्तद्यानपात्रस्वामिनं धनदत्तश्रेष्ठिनं प्रति प्राह, 'भो धनदत्त ! इत आसन्ने शैले बहवो भारण्डपक्षिण उपविष्टा दृष्टन्ते, तेन यदि कोऽपि साहसिकः पुमांस्तत्र गत्वा तान् पक्षिणस्तत उड्डाययेत्, तदा तेषां पक्षेभ्यो बहुर्वायुरुत्पत्स्यते, तेन वायुना प्रेरितं चेदं यानपात्रं नूनमितो गर्तातो बहिनिस्सरिष्यति, एवं चैषां सर्वेषां जनानां प्राणरक्षणं भविष्यति, अन्यथात्रैव यानपात्रमध्ये वयं सर्वेषां जनानां प्राणरक्षणं भविष्यति, अन्यथात्रैव यानपात्रमध्ये वयं सर्वेऽपि प्राणरहिता भविष्यामः' । तत् श्रुत्वा तेन धनदत्तश्रेष्ठिना प्रोक्तम्, 'भो जना ! युष्मन्मध्यात् किं कोऽप्येवंविधः साहसिको जनो विद्यते ? यो नागदत्तोक्तं कार्यं कुर्यात्' ।