________________
२४ • सुलभ- -चरित्राणि
बीजपुरकफलं दत्त्वा तामुत्पाटय स चलितः, शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता, पश्चात्तेनर्षिणा नृपविनयतुष्टेन तपसः प्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः कृताः, एवं तेन स्वकीयं सर्वमपि तपो निष्फलीकृतम् । अथ तेन सा कन्या निजाश्रमे स्थापिता, यौवनं, प्राप्ता च परिणीता, रेणुकेति तस्या अभिधानं जातम्, तया सह स विषयसुखानि भुनक्ति, अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तम्, हे प्रियेऽद्याहं त्वां प्रत्येकं वस्तु साधयित्वा दास्यामि, येन तव पुत्रोत्पत्तिर्भविष्यति, तदा रेणुकयोक्तम् हे स्वामिन् ! युष्माभि वस्तुनी साधयितव्ये । यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्राह्मणः पुत्रो मे भवेत् । तापसेनापि तथा कृतम्, तद्वस्तुद्वयं च रेणुकाग्रे मुक्तम् । अथ रेणुकया तन्मध्यादेकमौषधं जग्धं तत्प्रभावतश्च तस्या महाशूरो महाप्रतापी च रामनामा पुत्रोऽभूत् । अपरं चौषधं हस्तिनागपुरे स्वभगिन्यै अनङ्गसेनायै प्रहितं तया च तद्भक्षितं, तत्प्रभावेण च तस्या अपि कृतवीर्यनामा पुत्रो जातः इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी ११ स्थातुं न शक्नोति ।
I
अथैकदा स रेणुका निजभगिन्या अनङ्गसेनाया मिलनार्थं हस्तिनागपुरेऽनन्तवीर्यराज्ञो गृहे समागता, तां मनोज्ञरूपां दृष्ट्वाऽनन्तवीर्यः कामविह्नलो जातः, क्रमेण परस्परप्रीत्युद्भावनतोऽनन्तवीर्येण सा भुक्ता । ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः, अथान्यदा तत्पुत्रयुता रेणुका जमदग्निना स्वाश्रमे समानीता । एतदकार्यतो जातक्रोधेन रामेणानन्तवीर्यः परशुना हतः, तद् ज्ञात्वाऽनन्तवीर्यपुत्रकृतवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः, तदा परशुरामेण कृतवीर्यं हत्वा हस्तिनागपुरस्य राज्यं गृहीतम् । इतः कृतवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य वने तापसानामास्रमे गता, तापसैरपि सा भूमिगृहे स्थापिता । तत्र तस्याश्चतुर्दशस्वप्नप्रसूचितः सुभूमनामा पुत्रो जातः, अथ परशुरामेण भ्रान्त्वा परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान्