SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीसुभूमचक्रवर्तिचरित्रम् • २३ जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नगरलोका अपि तस्य पार्वे समागत्य तत्सेवां प्रत्यहं कुर्वन्ति । तस्य मस्तके महती जटा वर्त्तते, अथ तौ देवौ तस्य परीक्षार्थं चटकचटिकायुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं कृत्वा स्थितौ, एकदा चटकेन मनुष्यभाषया चटिकां प्रति कथितम्, 'हे प्रिय ! अहं हिमवन्त-पर्वते गत्वा द्रुतमेवागमिष्यामि,' तदा चटिकयोक्तम् 'चेत्तत्रैव त्वं कयापि चटिकया सहाऽऽसक्तः सन् तिष्ठेस्तदाहं किं कुर्वे ? अतो भवता न तत्र गन्तव्यम्,' तत् श्रुत्वा पुनश्चटकेनोक्तम्, 'चेदहं पश्चान्नागच्छामि तर्हि स्त्रीहत्यागोहत्यादिपातकं मेऽस्तु। तथैव कृतघ्नविश्वासघातकपरनिन्दकानां या गतिर्भवेत् सा मे गतिरस्तु,' चटिकयोक्तमेतत्किञ्चिदप्यहं न मन्ये, परं त्वं मयोक्तमेकं शपथं कुरु यथा मम प्रत्ययो भवेत्, चटकेनोक्तं कथय,' तयोक्तं, 'चेत्त्वं पश्चान्नायासि तदाऽस्य महर्षेः पापं ते भवतु इति शपथं कृत्वा त्वं याहि,' तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटकचटिकायुग्ममाकृष्य करे च धृत्वोवाच 'अरे चटिके ! मया किं पापं कृतम् ? तद्वद,' चटिकयोक्तम् 'हे ऋषे ! त्वमात्मनः शास्त्र विचारय, उक्तं च अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्धर्मं समाचरेत् ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि । अतः कारणात् भो मुने ! त्वं क्रोधं संवर, स्वगृहं च याहि,' ऋषिणापि तद्वचो मानितम् । अथ स जमदग्नितापसो गृहे गत्वा बहुपुत्रीपितुः कोष्टिकनगराधिपतेजितशत्रोर्नृपस्य पार्वे समागत्यैकां कन्यां ययाच । एवं तं तापसं चलचित्तं तपोव्रताच्च भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानन्तरं राज्ञोक्तम्, 'मम पुत्रीशतं वर्त्तते, तन्मध्याद्या त्वां वाञ्छेत तां गृहाण' । तदा स ऋषिपस्यान्तःपुरे गतः, तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलमसंस्कृतदेहं° मलिनाङ्गोपाङ्गं च दृष्ट्वा तं प्रतिथूत्कृतं चक्रुः, तदाकुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः, पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादाङ्गणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्श्य तेनोक्तम्, त्वं मां वाञ्छसि ? इत्युक्त्वा तस्या हस्ते
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy