________________
२२ • सुलभ-चरित्राणि नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या, शिवधर्ममध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्तव्या।
इतो मिथिलानगर्याः राजा पद्मरथो राज्यं त्यक्त्वा चम्पानगर्यां श्री वासुपूज्यस्य द्वादशतीर्थकरस्य पार्श्वे दीक्षां गृहीतवान्, तं पद्मरथं नवीनं साधु दृष्ट्वा उभावपि दैवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्तौ । नानाप्रकाराणि मिष्टभक्तानि, शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च, 'भोः साधो ! गृहाणेमानि,' तानि दृष्ट्वा क्षुधातृषापीडितोऽपि साधुरग्राह्याणि ज्ञात्वा न गृहीतवान्, एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता । अथ द्वितीयां परीक्षां कुरुतः, एकस्मिन् ग्राममार्गे ताभ्यां कण्टका: 'कर्कराश्च विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः, स साधुर्महानुभावो जीवदयापालनार्थं तं मण्डुकीसत्कं मार्गं त्यक्त्वा सकण्टकमार्गे याति, तैः कण्टकैश्च तस्य महोपसर्गो जातः, पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान्न परिभ्रष्टः, अथ तौ तस्य तृतीयां परीक्षां कुरुतः, ताभ्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकुर्विताः । ताः स्त्रियस्तस्य साधोरणे नानाप्रकाराणि नृत्यादीनि हावभावान्, भोगप्रार्थनादीनि च कुर्वन्ति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितं, पुनस्ताभ्यां नैमित्तिकरूपं विधाय तस्मै साधवे प्रोक्तम्, 'भोः साधो ! आवां ज्ञानिनौ नैमित्तिको स्वः, अधुनापि तवायुर्बहु वर्तते, अतो यौवनवयसि किमर्थं तपः करोषि ? नानाश्रृंङ्गाररसादियुतान् भोगान् भुव । अधुनैवैवंविधं काञ्चनसदृशं शरीरं तपसा त्वया कथं शोष्यते ? एतन्न युक्तम्, वृद्धत्वे त्वया चारित्रं ग्राह्यं,' तदा मुनिना प्रोक्तम्, 'यदि ममायुर्दीर्घमस्ति तदाहं बहुकालं चारित्रं पालयिष्यामि, धर्मं च करिष्यामि, शरीरं च मे तेन निर्मलं भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे 'जर्जरीभूते सति क्रियातप आदि किमपि न भवति । धन्यं मम भाग्यं येन मे चारित्रोदयो जातः,' एवं चतसृभिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवी हृष्टौ श्रीजिनशासनस्य प्रशंसा चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता ।
अथ शिवशासने वृद्धतापसपरीक्षार्थं तौ देवौ चलितो, इतः पूर्वोक्तो