________________
[५] ॥ श्रीसुभूमचक्रवर्तिचरित्रम् ॥ जो घायइ सत्ताइं, अलियं जंपेइ परधनं हरइ । परदारं चिय वच्चइ, बहुपावपरिग्गहासत्तो ॥१॥ चंडो माणी कुद्धो, मायावी निट्ठरो खरो पावो । पिसुणो संगहसीलो, साहूणं निंदओ अहमो ॥२॥ आलप्पालपयंपी, सुदुटुबुद्धी य जो कयग्यो य । बहुदुक्खसोगपउरो, मरिउं नरयंमि सो याइ ॥३॥
व्याख्या - यो जीवः सत्त्वान् मारयति, पुनरसत्यवचनं वदति, पुनरदत्तं वस्तु यो गृह्णाति, पुनः परदारेषु गमनं करोति, पुनर्बहुं परिग्रहं मेलयति, पुनर्यश्चण्डो, भयङ्करो, मानी, अहङ्कारी, क्रुद्धो, मायावी, निष्ठुरः, खरः, कठोरचित्तः, पापी, पिशुनः, संग्रहशीलः, कुसङ्गकृत्, साधूनां निन्दकः, अधर्मी, असम्बद्धवचनप्रजल्पकः, दुष्टबुद्धिः च पुनर्यः कृतघ्नो भवति स बहुदुःखप्रचुरोऽत्यन्तं दुःखी सन् मृत्वा नरकं याति, यथा अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः । तस्य प्रबन्धमाह -
वसन्तपुरसमीपे एकं वनं वर्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषुरे प्रसिद्धोऽभूत् । इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मो जिनभक्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो महाशैवधर्मी तापसद्धिभक्तश्च, द्वावपि तावात्मीयं धर्म प्रशंसतः, एकेनोक्तम् श्रीजैनसदृशः कोऽपि धर्मो नास्ति, द्वितीयेन चोक्तम् । शैवधर्मसदृशोऽन्यो धर्मो न, द्वावपि वादं कुर्वन्तौ स्वस्वधर्मपरीक्षार्थं मनुष्यलोके समागतौ । अथ जैनर्मिणा वैश्वानरदेवेनोक्तम्, जिनधर्ममध्ये जघन्यो