________________
१८• सुलभ-चरित्राणि पल्वलेषु “नागरिकबालाः स्वस्वपत्रप्रवहणानि तारयन्तः क्रीडयामासुः । एवं क्रीडतस्तान् बालान् दृष्ट्वा सोऽतिमुक्तमुनिवरोऽपि निजबाल्यचापल्यस्वभावतः स्वकीयकाष्ठतर्पिणीपात्रं तेषु पल्वलेषु तारयन् तै लैः सह क्रीडां कर्तुं प्रवृत्तः, कथयामास च 'भो बालाः ! पश्यत पश्यत ! ममापीयं नौर्जले तरतीति' । एवं बालैः सह क्रीडन्तं तं दृष्ट्वा ते स्थरिमुनयस्तं निवार्य तेन सह पुनरुपाश्रये समाजग्मुः । ततः प्रातरावश्यकं विधाय ते सर्वेऽपि मुनयोऽतिमुक्तकसंयुक्ताः श्रीमाहावीरप्रभुपायें समाययुः, तत्र च प्रभुं प्रदक्षिणीकृत्य प्रण्य च सर्वे विनयावनम्रास्तमतिमुक्तक्षुल्लकं पुरस्कृत्य प्रभुं विज्ञपयामासुः, 'भगवन् ! अयमतिमुक्तः शिशुत्वात् दीक्षायै अनर्हः सम्भाव्यते,' इत्युक्त्वा तैः ह्यस्तनदिनदृष्टं तस्य बालचेष्टितं प्रभोरग्रे निवेदितं । तन्निशम्य केवलज्ञानज्ञातसर्वचराचरस्वरूपेण भगवता प्रोक्तम्, 'भो मुनयः ! एतस्य बालस्यापि क्षुल्लकमुनेराशातनां यूयं मा कुरुत, अधुनैवायं केवलज्ञानमाप्स्यति । तत् श्रुत्वा ते गौतमाद्याः सर्वेऽपि मुनयः विस्मयं प्राप्ताः । इतः सोऽतिमुक्तक्षुल्लकमुनिरपि समवसरणे जगद्गुरोः पुरः शुभवासनया प्रायश्चित्तरूपामीर्यापथिकी प्रतिक्रमन् "दगमट्टी" इति शब्दमुच्चरन् पृथ्वीकायाप्कायिकादिजीवान् क्षामयन् तदैव केवलज्ञानं समवाप । तदा गौतमादिमुनिसमुदायेष्वाश्चर्यं प्राप्तेषु देवास्तस्य क्षुल्लककेवलिनो महोत्सवं विदधुः । यतः
प्रणिहन्ति क्षणार्धेन, १°साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव-तपसा जन्मकोटिभिः ॥१॥ मन एव मनुष्याणाम्, कारणं बन्धमोक्षयोः । यथैवालिङ्ग्यते पत्नी, तथैवालिङ्ग्यते सुता ॥२॥
अथ स केवलज्ञानालङ्कृतो नववार्षिक: क्षुल्लकोतिमुक्तमुनिः पृथ्व्यां विहरन् भव्यजीवांश्च प्रतिबोधयन् प्रतिदेशं, प्रतिनगरं, प्रतिग्रामं च जनगणान् विस्मापयामास, एवं विहरन् सोऽतिमुक्तकेवली एकदा सूर्यपुरस्य बहिरुद्याने समवसृतः । तत्र जितशत्रुनामा नृपतिरनेकनरनारीगणोपेतस्तं केवलिनं वन्दितुं