________________
श्रीअतिमुक्तमुनिचरित्रम् • १९ . समायातः । केवलिनः प्रदक्षिणां विधाय तदीयधर्मदेशनां श्रोतुं च सोऽग्रे समुपाविशत् । सर्वे नरनारीगणा अपि यथास्थानं तत्र समुपविष्टाः । अतिमुक्तकेवलिनापि धर्मदेशना प्रारब्धा । तद्यथा
आयुर्वायुचलं सुरेश्वरधनुर्लोलं' बलं यौवनम्, विद्युद्दण्डतुलं धनं गिरिनदीकल्लोलवच्चञ्चलम् । यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, . तावद्धर्मफलाप्तये जनगणैः कार्यः प्रयत्नः शुभः ॥१॥ यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषो । यावद्रोगगणोऽपि नेह कुरुते स्वाङ्गं जना जर्जरम् । स्वीयश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, सन्दीप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ? ॥२॥ जन्तूनामवनं१२ जिनेशनमनं भक्त्यागमाकर्णनम्, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् ।। मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलनम्, चेतः शोधनमिन्द्रियार्थदमनं यत्तच्छिवोपायनम् ॥३॥
एवंविधां केवलिनो धर्मदेशनां श्रुत्वा प्रतिबुद्धो जितशत्रुराजा सम्यक्त्वमूलद्वादशश्राद्धव्रतानि जग्राह । अन्येऽपि बहवो लोकाः भद्रकभाव युताः सम्यक्त्वं प्रापुः, एवं कियत्कालं विहृत्य सोऽतिमुक्तकेवली प्रान्ते मोक्षं ययौ।
: अभ्यास : प्रश्नः १. श्रीगोतमस्वामिनं दृष्ट्वा अतिमुक्तः किं कथितवान् ?
२. अतिमुक्तः दीक्षां ग्रहणार्थं पितरौ किं कथयाञ्चकार ? ३. अतिमुक्तमुनिना वृद्धा श्राविका कया युक्त्या बोधिता?