________________
श्रीअतिमुक्तमुनिचरित्रम् • १७
एवं भवे भवेऽनेक सम्बन्धाः कर्मयोगतः ! जायन्ते देहिनां तेन, कः पुत्रः कः पितोच्यते ॥ ३ ॥
किञ्च
संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥ ४ ॥
एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्री गौतमस्वामिहस्तेन प्रव्रज्यां जग्राह । एवं श्रीगौतमस्वाम्यादिष्टो चारित्रक्रियां कुर्वन् हृष्टचित्तः सन् सोऽतिमुक्तमुनिः शुद्धं संयममाराधयति स्म
अथैकदा गोचरचर्यया कस्मिंश्चिद् ग्रामे भ्रमन् सोऽतिमुक्तको मुनिरेकया वृद्धया हसन्त्या प्रोक्तः, 'भोः क्षुल्लकमुने! किं त्वया सकाले एव उत्सूर:६ कृतः ? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं' गृहीतम् ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः प्राहयज्जानामि तन्न जानामि । तत् श्रुत्वा सविलक्षं चमत्कृतया तया बृद्धया तदुक्तोत्तरभावार्थमजानन्त्या प्रोक्तम् भोः क्षुल्लकमुने ! त्वया किं प्रोक्तम् ?' अहं त्वदुक्तवचनतत्त्वार्थं ज्ञातुमशक्तास्मि । तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थं जगौ, भो वृद्धे ! व्रतग्रहणे सकाले बाल्येऽपि क उत्सूरं कुर्यात् ? यद् जानामि तन्मरणं क्वापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थं सकालेऽपि बाल्ये व्रतं गृहीतमस्ति । उत्सूरस्तु सः कालस्तदैवज्ञायते यदा ज्ञानं भवति, तद् ज्ञानं तु ममाद्यापि प्राप्तं नास्ति, इति मदुक्तवचनतत्त्वार्थो ज्ञेयः । तदुत्तरं श्रुत्वा तया वृद्धया चमत्कृतया हृदि चिन्तितं, अहो ! अनेन क्षुल्लकेनापि मनिना सत्यमेव प्रोक्तम् । इति विचिन्त्य तया श्राविकया तस्यातिमुक्तमुनेः पार्श्वे हास्यकृतस्वापराधक्षमायाचनपूर्वकं सम्यक्त्वमूलानि द्वादश श्राद्धव्रतानि स्वीकृतानि । अतिमुक्तक्षुल्लकोऽपि शुद्धान्नापानं विहृत्य धर्मशालायां गतः ।
अथैकदा क्षुल्लकः कैश्चिन्मुनिभिः सार्धं देहचिन्तार्थं बहिर्भूमौ गतः । तत्र वर्षाकालत्वात् कानिचिल्लघुपल्वलानि जलापूर्णान्यासन्, तेषु जलपूर्ण