________________
१६ • सुलभ-चरित्राणि
स्वामिनमनुगम्य अतिमुक्त उवाच, 'भगवन्नहं भवादृशो भवितु-मिच्छामि' | तदा गौतमेनोक्तम्, ‘भो अतिमुक्तक ! त्वमद्यापि बालोऽसि, जैनदीक्षा च दुष्कराऽस्ति, अतस्त्वया व्रतपालनं सुदुष्करं सम्भाव्यते । यतः
-
तपः क्रियामनोगुप्ति-विनयादिसुकर्मभिः । चारित्रं दुष्करं बाल्ये, जायते नात्र संशयः ॥ १ ॥
T
तत् श्रुत्वा अतिमुक्तेनोक्तम्, भगवन् ! नाहं बालः, नूनमहं महाव्रतस्वीकारेण भवादृशो भविष्यामि, अतो मां वदत, यूयं कुत्र वसथ ? यथाहं भवद्भिः सह तत्रागच्छामि । श्रीगौतमेनोक्तम्, 'ममाचार्याः श्रीवीरजिनेन्द्रा अत्र पुरोद्याने निवसन्ति, वयमपि तैः सार्धं तत्रैव वसामः' इति श्रुत्वा स बालोऽप्यतिमुक्तः तेन सह श्रीवीरजिनालङ्कृते पुरोद्याने समागतः । गौतमयुक्तस्तत्रागत्य अतिमुक्तको जिनं नत्वा, धर्मं श्रुत्वा बुद्धो गृहमागत्याब्रवीत् पितरौ । ‘हे मातः ! हे पितः ! अद्य मया पुरोद्यानं गतेन श्रीवीरप्रभो - र्मुखाद्धर्मश्रवणं कृतम् । अतोऽहमस्मादतिघोरस्वरूपात् संसारादुद्विग्नोऽस्मि, तेन माम् दीक्षाग्रहणार्थमनुमन्येथाम् ' । मातापितृभ्यां प्रोक्तम्, 'हे वत्स ! त्वया कथमेवमुच्यते ? त्वमेक एवावयोः पुत्रोऽसि, राज्यस्यास्य क आधारो भविष्यति ? किञ्चाऽस्माकं वृद्धत्वे त्वमेवाधारो भविष्यसि । अधुना त्वावयोरेव दीक्षाग्रहणावसरोऽस्ति । त्वं त्वधुना बालोऽसि । भागवती दीक्षा च सुदुष्करा विद्यते । तत् श्रुत्वा अतिमुक्तकः प्राह, 'भोः पितरौ ! किं ज्ञायते को वृद्धः ? कश्च लघुः ? संसारे सर्वेषामनित्यत्वमेव सम्भाव्यते । कः कस्य पुत्रोऽस्ति ? संसारे भ्रमतां जीवानां बहवः सम्बन्धा बहुषु भवेषु जाताः सन्ति । परं न कोऽपि कस्यापि शरणं यतः
1
माया पियरो भाया, भज्जा पुत्ता य मित्त धणनिवहा । न य सरणं संसारे, जीवाणं मुत्तुं जिणवयणं ॥१॥
यः पिता स हि पुत्रः स्यात्, यः पुत्रः स पिता भवेत् । यः पुत्रः स भवेन्माता, या माता सा सुतो भवेत् ॥२॥