________________
[ ४ ]
॥ श्रीअतिमुक्तमुनिचरित्रम् ॥
कृताने कतमस्कोऽपि, १ निजं निन्दन् सुभावतः । ईर्यापथिकया सिद्धो, ह्यतिमुक्तो महामुनिः ॥१॥
पेढालाख्ये पुरे महानगरे श्रीविजयाभिधो राजा राज्यं चकार, तस्य सच्छीलशालिनी श्रीमत्यभिधा राज्ञी बभूव । तौ द्वावपि दम्पती जैनधर्मकुशलावास्ताम्, दानशीलतपोभावनापूजाप्र भावनाऽमारीघोषणासप्तक्षेत्र २ स्वधनवापादिपुण्यकार्यंकुरुतः स्म । यतः -
स्वल्प श्रीसंयुता येऽपि, दानं कुर्वन्त्यनेकधा । स्वशक्ति प्रकटीकृत्य, ते धन्या दानिनां मताः ॥१ ॥ रोगक्लेशमदोन्मादैः, सर्वदुःखपरीषहैः । स्वीकृतं ये न मुञ्चन्ति, व्रतं स्युस्ते बुधैः ३ स्तुताः ॥२॥
क्रमाद्धर्मकार्याणि कुर्वतोस्तयोरेकः शुभलक्षणोपेतः सुतोऽभूत्, तस्य पुत्रस्य जन्मोत्सवं कृत्वा राज्ञा अतिमुक्त इति नाम दत्तम् । एवं क्रमेण स बालो वृद्धिं प्राप्नुवन् अष्टवार्षिको जातः । एकदाऽसौ समवयस्कैरन्यैः४ बालैः समं रथ्यायां' रममाणोऽभूत् । इतो गोचरचर्यायै तत्र विरचन्तं श्रीगौतमस्वामिनं गणधरेन्द्रं दृष्ट्वा सोऽतिमुक्तकुमारो हृष्टः सन् प्रणम्य प्राह, 'हे भगवन् ! के यूयं किमर्थं चात्र विचरथ ?' तैरुक्तं 'वयं श्रमणाः स्मः, शुद्धाऽऽहारलाभार्थं च विहरामः' । अतिमुक्तेनोक्तम्, 'भगवन् ! तर्हि मदीयगृहे समागच्छत, मे माता युष्मभ्यं शुद्धाऽऽहारं दास्यति', इत्युक्त्वा तदीयाङ्गुलीलग्नः स गौतमस्वामिनं निजगृहे समानयत् । श्रीमत्यपि भगवन्तं श्रीगौतमस्वामिनं समागतं दृष्ट्वाऽतीवहृष्टा शुद्धाहारैः प्रत्यलाभयत् । अथ तदा निवृत्य गच्छन्तं श्रीगौतम