________________
श्रीप्रसन्नचन्द्रराजर्षिचरित्रम् • १३ वैरिणं ताडयामीति बुद्धया साक्षादेव हस्तौ तेन शिरसि न्यस्तौ, तत्कालं कृ तके शलुञ्चनं स्वं शिरो दृष्ट्वा स पश्चाद्वलितः, अहो धिग्मयाऽज्ञानान्धितधिया१७ रौद्रध्यान-परायणेन किं चिन्तितम् ? त्यक्त्सावद्यसङ्गस्य गृहीतयोगस्य वान्तभोगस्य ममैतद्युद्धं न घटते । कस्य सुतः ? कस्य प्रजाः ? कस्यान्तःपुरम् ? अरे दुरात्मन् ! त्वया किं विचारितम् ? सर्वमप्यनित्यं यदुक्तं
चला विभूतिः क्षणभङ्गि यौवनम् ! कृतान्तदन्तार्ववर्ति जीवितम् । तथाप्यवज्ञा परलोकसाधने, अहो ! नृणां विस्मयकारि चेष्टितम् ॥१॥
एवं शुभध्यानमापन्नः प्रतिक्षणं १८निकृष्टनिकृष्टतराध्यवसायबद्धानि कर्मदलिकान्युन्मूलयामास, शुभतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनयोग्यानि दलिकानि स्फेटयित्वोर्द्धवं यावत्सर्वार्थसिद्धविमानगमनयोग्यं कर्मदिलं मेलयित्वोत्तरोत्तरपरिणामधारया परमपदप्राप्तिपरमकारणं क्षपकश्रेणिशरणमाश्रित्य घातिकर्मक्षयं विधाय तत्कालमेवोज्जवलं केवलज्ञानमाप अतस्तत्प्रभावात्सुरा एकीभूय गीतगानाधुत्सवं कुर्वन्तीति श्रुत्वा श्रेणिकः सविस्मयं मुहुर्मुहुः शिरो धुन्वन् प्रभुं वन्दित्वा निस्सन्देहो भूत्वा स्वस्थानं जगाम । प्रभुरप्यन्यत्र विजहार, प्रसन्नचन्द्रोऽपि बहुकालं यावत्केवलित्वेन भूमौ विहृत्य शिवपदमलङ्कृतवानित्युपनयः, अत एवात्मनः साक्षिकमाचरितं पुण्यपापं फलदायीति दृष्टान्तः ॥ ॥ इति श्रीप्रसन्नचन्द्रराजर्षिचरित्रम् समाप्तम् ॥
: अभ्यास : प्रश्नः १. कीदृशं दृश्यं दृष्ट्वा प्रसन्नचन्द्रराज्ञः वैराग्यमभूत् ?
२. संसारे कुत्र-कुत्र स्थाने भयानि वर्तन्ते ? किमभयम् ? ३. प्रसन्नचन्द्रराजर्षिणा मनसि युद्धं कथं कृतम् ?