________________
श्रीप्रसन्नचन्द्रराजर्षिचरित्रम् • ११ राज्ये स्थापयित्वा निर्गतः, परन्त्वेतद्वैरिभिमिलित्वा एतन्नगरमुल्लुसितम्,८ . एतदीयाः पौरजनाः क्रन्दन्ति, विलापं कुर्वन्ति, महद्युद्धं जायते, अधुना ते एतदीयं बालकं निहत्य राज्यं ग्रहीष्यन्ति, एतत्सर्वं पापमेतच्छिरसि, इति श्रुत्वा ध्यानस्थितेन प्रसन्नचन्द्रराजर्षिणा चिन्ततमहो ! मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णन्ति तपेषा मानहानिर्ममैवेति स ध्यानाच्चलितः, मनसैव वैरिभिः सार्धं तेन युद्धं कर्तुमारब्धम् । अतीवरौद्ररूपतामापन्नस्तन्मनां रौद्रं ध्यानं ध्यायति, मनसैव वैरिणं निहन्ति, हता इमे इति बुद्ध्या समीचीनं जातमिति मुखेनापि जल्पते, अधुनान्यं मारयामीति पुनरपि मनसा युद्धाय प्रवर्तते । एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कन्धाधिरूढेन प्रसन्नचन्द्रो दृष्टः, अहो धन्योऽयं राजर्षिरयमेकाग्रमनसा ध्यानं करोति । श्रेणिकोऽपि गजादुत्तीर्य त्रिःप्रदक्षिणीकृत्य° पुनः पुनर्वन्दते स्तौति च । तं वन्दित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पञ्चाभिगमनविधिना जिनं वन्दित्वा करकमलौ मूकुलीकृत्यैवं१ स्तौति स्म । यदुक्तं
अद्याऽभवत्सफलता नयनद्वयस्य, देव ! त्वदीयचरणाम्बुजवीक्षणेन ॥ अद्य त्रिलोकतिलक ! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणः ॥१॥ दिढे तुह मुहकमले, तिन्निवि णाई निरवसेसाइं । दारिदं दोहग्गं, जम्मंतरसंचियं पावं ॥२॥
इत्याद्यष्टाधिकशतसङ्ख्यैः काव्यैजिनं स्तुत्वा यथास्थानमुपविष्टः, प्रभुणा क्लेशनाशिनी धर्मदेशना प्रारब्धा, देशनान्ते श्रेणिक: स्वामिनं पृच्छति स्म । हे विभो ! यदवसरे मया प्रसन्नचन्द्रो वन्दितस्तदवसरे यदि स कालधर्म प्राप्नोति तदा क्व गच्छति ? स्वामिनोक्तं तदा सप्तमी नरकपृथ्वीं याति, श्रेणिकेनोक्तं स्वामिन्नधुना क्व गच्छति ? भगवतोक्तं षष्ठी नरकपृथ्वीं याति, पुनरपि श्रेणिकेन क्षणं विलम्ब्य पृष्टं अधुना, क्व गच्छति ? भगवतोक्तं पञ्चमी