________________
१० • सुलभ चरित्राणि
जग्राह। तत्कालकृतलोचो भूमौ विहरन् राजगृहोद्याने कायोत्सर्गमुद्रया तस्थौ । तस्मिन्नवसरे श्रीमान् वर्धमानस्वामी ग्रामाद् ग्रामं विहरन् चतुर्दशसहस्रसाधुपरिकरितः सुरनिर्मितकाञ्चनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले चैत्ये समवासार्षीत्, सुरौरागत्य समवसरणं निर्मितम् । वनपालका झटिति नगरे समेत्य श्रेणिकं विज्ञपयामासुः, स्वामिन् ! भवदीयमनोवल्लभाः श्रीवर्धमानस्वामिनो वने समवसृताः । एतद्वनपालकवचनं श्रुत्वा राजाऽतीव हृष्टः कोटिप्रमितं धनं तस्मै ददौ स्वर्णजिह्वां च ददौ । तदनन्तरं राजा महताडम्बरेण जिनवन्दार्थं चलितः, तस्य राज्ञः सैन्यमुखे सुमुखदुर्मुखनामानौ द्वौ दण्डधरौ चलितौ । तदनु ताभ्यां प्रसन्नचन्द्रो मुनिर्वने कायोत्सर्गमुद्रया स्थितो दृष्टः, सुमुखेनोक्तं धन्योऽयं मुनिः, येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता, एतस्य नाम्नापि पापं याति किं पुनः सेवनेन ? तदा दुर्खेनोक्तं अधन्योऽयं, महापापोऽयं मुनिः किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापभाग् नास्ति । सुमुखेन मनसि चिन्तितं, अहो दुर्जनस्वभावोऽयं यद् गुणेषु दोषमेव गृह्णाति यदुक्तं
आक्रान्तेव' महोपलेन मुनिना शप्तेव दुर्वाससा । सातत्यं बत मुद्रितेव "जतुना नीतेव मूर्च्छा विषैः । बद्धेवाऽतनुरज्जुभिः ६ परगुणान् वक्तुं न शक्ता सती । जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ १ ॥ तथा चोक्तं
आर्योऽपि दोषान् खलवत्परेषाम्, वक्तुं हि जानाति, परं न वक्ति ।
किं काकवत्तीव्रतराननोऽपि ! कीरः ७ करोत्यस्थिविघट्टनानि ॥ २ ॥
ततः सुमुखेनोक्तं भो दुर्मुख ! किमर्थमेनं मुनीश्वरं महात्मानं निन्दसि ? तदा दुर्मुखेणोक्तं भो ! एतस्य नामापि न ग्रहीतव्यम् । यदयं पञ्चवार्षिकं बालं