________________
U
[३] ॥श्रीप्रसन्नचन्द्रराजर्षिचरित्रम् ॥
पोतनपुरे नगरे प्रसन्नचन्द्रो राजा बभूव, सोऽतीवधार्मिकः, सत्यवादी, न्यायधर्मैकनिपुणः स एकदा सन्ध्यायां गवाक्षस्थितो नगरस्वरूपं विलोकयति, तस्मिन्नवसरे नानावर्णान्यभ्राणि जातानि, सन्ध्यारागः सञ्जातः, तं दृष्ट्वाऽतीव हर्षितो राजा मुहुर्मुहुविलोकयति, तत्सन्ध्यास्वरूपं क्षणिकं दृष्टनष्टमिव नष्टम्, राज्ञा चिन्तितं, क्व गतं सन्ध्यारागसौन्दर्यम्, अनित्यता पुद्गलानाम्, सन्ध्याराग इव देहोऽप्यनित्यः, संसारे प्राणिनां किमपि सुखं नास्ति, यदुक्तं६दुःखं स्त्रीकुक्षि मध्ये 'प्रथममिह २भवे गर्भवासे पनराणाम्,
बालत्वे 'चापि दुःखं १°मललुलितवपुः२ ११स्त्रीपयःपानमिश्रम् । १२तारुण्ये १३चापि १५दुःखं १६भवति १४विरहजं वृद्ध भावोऽप्य सारः, संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥१॥
___ एवं वैराग्यरङ्गेण रञ्जितमना राजा चिन्तयति संसारे वैराग्योपमं सुखं नास्ति । यदुक्तंभोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयम् । दास्ये स्वामिभयं, गणे खलभयं, वंशे कयोषिद्धयम ॥ माने म्लानिभयं, जये रिपुभयं, २काये कृतान्ताद्भयम् । सर्वं नाम भयं भवेच्च भविनां वैराग्यमेवाभयम् ॥१॥
एवं वैराग्यपरायणो राजा स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीक्षां