________________
श्रीगजसुकुमालचरित्रम् • ७ घटीकण्ठं मुमोच । ततस्तत्र ज्वलन्त्याश्चिताया ज्वलदङ्गारकानानीय स तैस्तं घटीकण्ठं बिभरामास । ततो द्रुतमेव ततः पलाय्य स निजगृहे समायातः इतः कायोत्सर्गध्यानस्थितस्य तस्य गजसुकुमालमुनेस्तैर्व्वलदङ्गारैः सर्वाणि कर्मेन्धनानि तथा दग्धानि, यथा क्षणमात्रादेव स केवलज्ञानमासाद्य मुक्तिधामनि ययौ । अथ प्रभाते देवक्यादिपरिवारयुतः कृष्णः प्रभुं नन्तुं समाययौ, परं तत्र तं गजसुकुमालमुनिमनीक्ष्योत्सुकीभूतः स प्रभुं पप्रच्छ, हे स्वामिन् ! स मे भ्राता गजसुकुमालो मुनिः क्वास्ति ? अहं सपरिवारस्तं वन्दितुमिच्छामि । तदा प्रभुणा प्रोक्तम्, भो कृष्ण ! तस्य तव भ्रातुर्द्विजसाहाय्येन निर्वाणमभूत् । एवं वज्रप्रहारोपमं प्रभुवनचं निशम्य मोहमूढः कृष्णादिपरिवारो द्रुतं मूच्छितः । कियत्समयानन्तरं पुनर्लब्धचैतन्योऽश्रुपूर्णनयनः कृष्णः पुनः प्रभुं पप्रच्छ, हे भगवन् ! तस्य मम भ्रातुर्मुनेः कथं निर्वाणं जातम् ? प्रभुः प्राह, भो कृष्ण ! नूनं तस्य महामुनेर्द्विजस्य सहायेन निर्वाणमभूत् । श्मशाने कायोत्सर्ग-ध्यानस्थितस्य तस्य मस्तके तेन द्विजेन ज्वलदङ्गारभृता शकटी मुक्ता, तेन तस्य तूर्णमेव कर्मक्षयादन्तकृत्केवलित्वेन निर्वाणमभूत् । ___यदि स द्विजोऽधुना तस्यैवंविधं सहायं नाऽकरिष्यत्, तदा बहुकालेन कष्टात्कर्मक्षयोऽभविष्यत् । यथाद्यैव त्वया मार्गे समागच्छता देवकुलिकानिर्मापणार्थमेकैकामिष्टिकां वहन् द्विजो दृष्टः, तदा त्वयापि तस्य सहायार्थमेकेष्टिका तत्रानीता । तद् दृष्ट्वा तव सर्वेणापि परिवारेण तत्रैकैकेष्टिका समानीता । एवं तत्र समूहीभूताभिस्ताभिरिष्टिकाभिस्तस्य द्विजस्य क्षणमात्रेण देवकुलिका निष्पन्ना, एवं च यथा तस्य द्विजस्येष्टिकावहनकार्यं तव सहायेन समाप्तम् । तथा तस्य गजसुकुमालमुनेरपि तस्य द्विजस्य सहायेन सर्वकर्मक्षयात्तूर्णं निर्वाणमभूत् । अथ तस्य द्विजस्योपरि त्वया कोपो न कार्यः । तत् श्रुत्वा कृष्णेन पुनरपि भगवते पृष्टम्, हे भगवन् ! किनामा स द्विजोऽस्ति ? तदा प्रभुणा प्रोक्तम्, भोः कृष्ण ! अद्यैव प्रतोल्यां प्रविशन्तं त्वां वीक्ष्याकस्मादेव भयभीतस्य यस्योरस्फोटात्तत्रैव मरणं भविष्यति, स एव द्विजस्त्वया गजसुकुमालमुनेनिर्वाणसहायकर्ता ज्ञेयः ततः कृष्णेन सकुटुम्बेन तस्य गजसकु