________________
६ • सुलभ-चरित्राणि नागरिकाश्च प्रभोर्वन्दनार्थं हर्षोत्फुल्लनयनास्तत्र समवसरणे संमायाताः वसुदेव समुद्रविजयकृष्णादियादवा अपि सपरिवारा धर्मोपदेशमाकर्णयितुं श्रीनेमिप्रभोः पार्वे तत्र समवसरणे समाययुः भगवानपि तत्र भव्यानां संसारसागरतरणनौनिभां धर्मदेशनामदात्, तद्यथानिर्दन्तः करटी' हयो गतजवश्चन्द्रं विना शर्वरी । निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः ॥ रूपं निर्लवणं५ सुतो गतगुणश्चारित्रहीनो यतिनिर्देवं भुवनं न राजति तथा धर्म विना पौरुषम् ॥१॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥२॥
एवंविधां जिनेश्वरमुखादाविर्भूतां धर्मदेशनां श्रुत्वा वैराग्यवासितहृदयो गजसुकुमालो निजपितरावापृच्छ्य महताडम्बरेण कृष्णकृतनिष्क्रमणमहोत्सवः प्रभुपार्श्वे प्रव्रज्यां जग्राह । यतः
जह चयइ चक्कवट्टी, नियरज्जं पवित्थंर मुहुत्तेण । न चयइ तहा अहन्नो, दुबुद्धी खप्परं दुमओ ॥१॥
ततः प्राप्तसंयमः स गजसुकुमालमुनिादशाङ्गपारीणः क्रमेण बहुश्रुतो जातः । नित्यं षष्ठाष्टमदशमादि तीव्र तपः कुर्वाणोऽसौ मुनिर्नगराद्वहिः कायोत्सर्गस्थितो ध्यानपरः परमात्मलीनो भवति । ततोऽन्येधुः स गजसुकुमालो मुनिः प्रभुमापृच्छ्य सायं श्मशाने गत्वा शुभध्यानं ध्यायन् कायोत्सर्गेण तस्थौ । इतस्तत्राकस्मादागतेन दुष्टेन तस्य श्वशुरेण सोमशर्मद्विजेन तं कायोत्सर्गस्थं निजजामातरं गजसुकुमालमुनि दृष्ट्वा क्रोधाभिभूतेनेति ध्यातम्, अरे ! अयं पापी गजसुकुमालो मदीयां पुत्री परिणीय तत्कालमेव तां परित्यज्य दीक्षां गृहीत्वा मुधैव विडम्बयामास, इति चिन्तयन् क्रोधोद्धतः स द्विजाधमस्तत्र कायोत्सर्गस्थितस्य तस्य गजसुकुमालमुनेमस्तकोपरि ६शकट्याकारमेकं