________________
श्रीगजसुकुमालचरित्रम् • ५
कृष्णाय निवेद्य जगौ, हे पुत्र ! एवं मम जीवितं सर्वमेव निष्फलं जातम्, यतःत्वज्ज्येष्ठान् सुलसा बाल्ये यशोदा त्वामपालयत् । अपूर्यत न मे बाललालनस्य मनोरथः ॥ १ ॥
वत्स ! तस्मादहं पुत्र-मीहे वाञ्छितपूर्तये । बाललालनहर्षो हि देवीनामपि दुर्लभः ॥ २ ॥
एवं निजमातरं चिन्तातुरां वीक्ष्य तामाश्वास्य कृष्णः प्राह, हे मातरेतद्विषये त्वया खेदो न कार्यः, वासवध्वजिनीपतिं ३ हरिणैगमेषिणं देवं समाराध्य नूनं तव मनोरथमहं पूरयिष्यामि । इत्युक्त्वा कृष्णेन द्रुतं तस्य देवस्याराधनं कृतम् । तदा स हरिणैगमेषी देवः प्रकटीभूय कृष्णमाह, भो विष्णो ! नूनं देवक्यास्ते मातुरष्टमः पुत्रो भविष्यति, परं प्राप्ततारुण्यः स पुण्यात्मा प्रव्रज्यां ग्रहीष्यति । इत्युक्तवा स देवो निजं स्थानं गतः । कृष्णेनापि स वृत्तान्तो निजजनन्यै निवेदितः । ततः कियति काले व्यतिक्रान्ते कश्चिन्महद्धिको देवः स्वर्गाच्च्युत्वा तस्या देवक्याः कुक्षाववतीर्णः, तदा तया देवक्या स्वप्ने गजः प्रेक्षितः । क्रमेण सम्पूर्णसमये सा मनोहराकारं शुभलक्षणं सुतमेकमसूत । तस्य पुत्रस्य जन्मोत्सवं कारयित्वा स्वप्नानुसारेण वसुदेवो “गजसुकुमाल” इत्यभिधानमदात् । अथ देवकी निजहृदयेऽत्यन्तं हृष्टा तं पुत्रं स्तन पानदानोत्सङ्गारोपणादिना सुखेन वर्धयामास । क्रमेण मातापित्रोर्भ्रातुश्च नेत्राणि प्रमोदयन्, मनोहरवचनानि जल्पन् स गजसुकुमालकुमारो वृद्धिं प्राप । ततः सम्प्राप्तयौवनोऽसौ पितुराज्ञया महोत्सवेन द्रुममहीपतेः प्रभावत्याख्यां कन्यां परिणीतवान् । अथ तस्यामेव द्वारिकायां नगर्यामेकः सोमशर्माभिधो द्विजो वसति स्म, तस्य सोमाभिधानात्यन्तं मनोहररूपलावण्योपेता तनयास्ति ।
1
ततोऽन्यदा मातापितृभ्यां कृष्णेन भ्रात्रा चाऽनिच्छन्नपि स गजसुकुमालो महताग्रहेण तया सोमाभिधया द्विजकन्यया सह परिणायितः अथ दैवयोगेन तस्मिन्नेव दिने तस्या द्वारिकाया नगर्या बहिरुद्याने श्रीनेमिनाथो भगवान् समवासार्षीत्, देवैश्च मिलित्वा तत्र समवसरणं विहितम् । सर्वे