________________
४. सुलभ-चरित्राणि मदीयगेहे विहर्तुं कथं समायातौ ? युवयोः किं दिग्मोहो जातोऽस्ति ? अथवा नगरीमध्येऽन्यगेहे क्वापि भिक्षा लभ्यमाना नास्ति ? अथवा किं ममैव मतिभ्रमो जातोऽस्ति ? तत् श्रुत्वा तत्साधुयुगलं प्राह, हे महासति ! नूनं तवैव मुधा दिग्मोहो जातोऽस्ति । यतो वयं षडपि बान्धवाः समानरूपास्तुल्याकाराश्च भद्दिलपुरवास्तव्यनागश्रेष्ठिसुलसाश्राविकयोः पुत्राः स्मः ।
___अस्माभिश्च श्रीनेमिजिनेश्वरस्य धर्मदेशनां निशम्य वैराग्यतस्तस्य पार्वे दीक्षा गृहीतास्ति । वयं द्वौ द्वौ साधू मिलित्वा पृथक् पृथगेव भवत्या भाग्यवत्या गृहे भिक्षार्थं समायाताः स्मः ततो हृष्टा देवकी स्वापराधक्षमां याचित्वा तौ साधू वन्दते स्म । अथ तयोर्गमनानन्तरं देवकी दध्यौ, अमी षडपि साधवो नूनं कृष्णतुल्या दृश्यन्ते, तिलमात्रेणाप्येतेषां मुनीनां कृष्णस्य चान्तरं न विलोक्यते, नूनमेते षडपि ममैव पुत्राः सम्भाव्यन्ते, किञ्च पर्वमतिमुक्तमुनीन्द्रेणापि ममैवमुक्तमस्ति, यत्तव ते षडपि पुत्रा जीवन्तः सन्ति । इति संशयान्दोलिता सा देवकी निजसंशयापनोदाय द्वितीयेऽह्नि श्रीनेमिप्रभुपार्श्वे समायाता । तत्र प्रभु प्रणम्य देवकी यावन्निजसंशयापनयनार्थं प्रष्टुमिच्छति, तावन्निजज्ञानेन तदीयभावज्ञः प्रभुरेव तस्यै स्माह, भो देवकि ! एते षडपि शत्रुसेनाद्यास्तवैव सूनवः सन्ति, देवेन सुलसाया गृहे मुक्तास्तत्र च वृद्धि प्राप्ताः सन्ति । तत् श्रुत्वा व्यपगतसंशयाऽतीवहष्टा प्रसवत्स्तनी सा देवकी तान् षडपि मुनीन् प्रत्येकं वन्दते स्म । ततः किञ्चित् खिन्नमानसा देवकी प्रभुं प्राह, हे स्वामिन् ! मयैषु तनयेषु मध्यादेकोऽपि नन्दनो न लालितः, तेन मम मनस्यत्यन्तं दुःखं जायते । तत् श्रुत्वा भगवान् जगौ, भो देवकि ! त्वं मुधैव कथं ताम्यसि ? इह जगति सर्वेऽपि प्राणिनः पुराकृतानि निजनिजकर्माण्येवानुभवन्ति, तवाप्यत्र पुरा कृतं कर्मैवोदयमागतमस्ति, त्वया पूर्वभवे तव सपत्न्या रत्नानि हृतान्यासन्, तद्रत्नापहारतो दुःखं प्राप्ताया अतीवरुदत्यास्तस्यास्त्वयैकं रत्नं पुनः समर्पितमासीत् । ततः प्रभुं प्रणम्य निजं प्राक्कृतं कर्म निन्दन्ती सा देवकी निजगृहे समागत्य विच्छायवदनाऽस्थात् इतस्तत्र समायातः कृष्णो निजमातरं विच्छायवदनां निरीक्ष्यापृच्छत्, भो मातः ! अद्य त्वं किं विच्छायवदना विलोक्यसे? एवंविधा का चिन्ता तव हृदये वर्तते ? तदा देवकी तन्मुनीनामागमनादिसकलं वृत्तान्तं