________________
। [२] ॥ श्रीगजसुकुमालचरित्रम् ॥ सहते चोपसर्गान् यो जनः प्राणान्तकारकान् । लभते निर्वृतिं गज-सुकुमालयतीशवत् ॥१॥
भद्दिलाख्ये नगरे नागाभिधो जैनधर्मपरायणः श्रेष्ठी बभूव । तस्य च परमश्राविका जिनधर्मदेवगुरुभक्तिपरा शुद्धसम्यक्त्वशालिनी, प्रशस्यमाना सुलसाख्या प्रियासीत्, अथ द्वारिकाधीशवसुदेवनृपपार्वात् कंसेन याचितानां देवक्याः सप्तानामपत्यानां मध्यात् षट्पुत्रास्तेषां जन्मसमये केनचिद् देवेन प्रच्छन्नं संहृत्य तस्या नागश्रेष्ठिपत्न्याः सुलसाया गृहे मुक्ता आसन् । सुलसया च ते पुत्रवत् पालिताः, क्रमेण यौवनं प्राप्तास्ते षडपि देवकीसुतास्तुल्याकारास्तुल्यरूपाश्च, सुलसया प्रत्येकं द्वात्रिंशत्कन्याः परिणायिताः कियत्कालानन्तरमेकदा तैः षड्भिरपि श्रीनेमिनाथप्रभोधर्मदेशना श्रुता, प्रतिबोधं प्राप्य गृहीता च तैः श्रीपारमेश्वरी दीक्षा । क्रमेण चरमशरीरिणश्च ते सर्वेऽपि द्वादशाङ्गे पारिणो बभूवुः ।
अन्यदा भूमौ विहरन्तस्ते षडपि मुनिवराः श्रीनेमिप्रभुणा सह द्वारिकानगर्यां समायाताः, अथान्यदा षष्ठतप:पारणादिने युगलिनौर भूत्वा ते षडपि भ्रातृमुनयो गोचरचर्यार्थं नगरीमध्ये गताः । एवं भिक्षार्थं भ्रमतां तेषां मध्यात् प्रथमं युगलं दैवयोगेन श्रीकृष्णगृहे सम्प्राप्तम् । तदा हृष्टया देवक्योत्थाय वन्दनपूर्वकं मोदकैस्तद्युग्मं प्रतिलाभितं, तस्मिन् साधुयुग्मे गते किञ्चित्समयान्तरे द्वितीयमपि साधुयुगलं तत्रैव कृष्णगृहे भिक्षार्थमायातं, देवक्या च तथैव पूर्ववत्समुत्थाय वन्दनपूर्वकं तदपि युगलं मोदकैः प्रतिलाभितम्, गतं च तदपि साधुयुगलम् । इतः किञ्चित्कालानन्तरे दैवयोगेन तृतीयमपि समानरूपं तुल्याकारं मुनियुगलं तत्रैव भिक्षार्थं समायातम् । तद्युगलमपि पूर्ववन्मोदकैः प्रतिलाभ्य विस्मितमानसा देवकी तन्मुनियुगलं प्रति प्राह भो मुनी ! युवां मुहुर्मुहुरत्रैव