________________
२. सुलभ-चरित्राणि याच्यसे, तदा राज्ञापि जीवितप्रदानपूर्वकं चौरः प्रदत्तोऽनया च तं चौरं स्वगृहे नीत्वा समान्यभोज्येन भोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्यं मा कार्षी स्ततोऽसौ हृष्टस्तदा सपत्नीभिर्हसितं नास्य त्वया किञ्चित् सुखकारि कृतं, तासां च परस्परं बहूपकारविषये विवादे सञ्जाते राज्ञा स एव चौरः समाहूय पृष्टोऽहो कया तव बहूपकारः कृतः ? इति, तेनाप्यभाणि भो महाराज ! चत्वारि दिनानि यावन्मरणभयभीतेन मया न किञ्चित्स्नान-भोजनादिसुखमज्ञायि, अद्य पञ्चमेऽहनि अस्याः पञ्चम्या राज्या मुखादभयदानाकर्णनेन परमसुखमनुभूयते, अत एव तस्या उपकारः सर्वतो महान्, एतच्चौरवचः श्रुत्वा सर्वैरपि सा प्रशंसिता, पट्टराज्ञी च कृता, अतः सर्वदानानामभयदानं श्रेष्ठमिति ज्ञापितम् ।
ततः सुर्शावकेणात्र पर्वणि खण्डन-पेषण१०-वस्त्रक्षालनाद्यारम्भो विवर्जनीयः, तैलिक-लोहकारभ्राष्ट्रकर्मकारकादिषु११ वाचा धनव्ययेन चारम्भो निवारणीयः, स्वशक्त्या १२बन्दिमोक्षश्च कार्यः, ग्रामनगरमध्येऽमारीघोषणा कारयितव्या, येन केनापि प्रकारेण जीवरक्षा कार्या ॥
॥ इति अभयदानकथानकम् ॥
: अभ्यास : प्रश्न : १. कीदृशं चौरं दृष्ट्वा राज्ञीभिः किमप्रच्छि ?
२. कतिभी राज्ञीभिश्चौर उपकृतः ? केन प्रकारेण ?
३. सुश्रवाकेण केन प्रकारेणारम्भो वर्जनीयः ? १. कृत्स्न संपू. २. गवाक्ष पुं.-मो. ३. कणवीरस्य माला कणवीरमाला । रक्त चासौ कणवीरमाला च रक्तकणवीरमाला । कण्ठे न्यस्ता कण्ठन्यस्ता । कण्ठन्यस्ता रक्तकणवीरमाला यस्य सः कण्ठन्यस्तरक्तकणवीरमालः । (समा. बह) ॥४. कणवीरपुं. २ ५. डिण्डिम पुं. पानि विषे ६. दीनार पुं. - सोनामोर ॥७. उपचरित वि. - स२०२। ॐरी. ८. मा कार्षीः कृ धातु अद्यतनी तरिणी. . . "मा"नो यो डोवाथ अमावेश नथी. ॥ ९. अहन् नपुं.-हवस. ॥ १०. पेषण नपुं. म. ११. भ्राष्ट्रकर्म नपुं. - ABI संबंधी अर्थ ॥ १२. बन्दि पुं. - ही॥