________________
सुलभ- चरित्राणि [ १ ] ॥ श्री अभयदानोपरि दुर्भगायाः कथानकम् ॥
यो दद्यात्काञ्चनं मेरुं कृत्स्नां चापि वसुन्धराम् । एकस्य जीवितं दद्यान्न हि तुल्यमहिंसया ॥ २ ॥
अतोऽभयदान-माहात्म्यख्यापनार्थं कथानकमुच्यते
तथाहि-वसन्तपुरेऽरिदमनो राजा, तस्य पञ्च राज्ञ्यस्तासु चैका दुर्भगा,
चतस्रोऽत्यन्तवल्लभाः,
एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाक्षस्थो २ नानाविधक्रीडाविलासं कुर्वंस्तिष्ठति, तस्मिन्नवसरे एकश्चौरो राजमार्गेण नीयमानो राज्ञा सपत्नीकेन दृष्टः, स च कीदृश: ? कण्ठन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो, रक्तचन्दनानुलिप्तगात्रः पुरस्ताद्वाद्यमानवध्यडिण्डिमः ५, इत्थं विविधविडम्बनाभिर्विडम्ब्यमानं तं चौरं दृष्ट्वा राज्ञीभिः पृष्टं, किमकार्यमनेनाकारीति, तदा एकेन राजपुरुषेण तासां पुरः कथितं, परद्रव्यापहारेण राजविरुद्धमनेन कृतमिति, ततः सञ्जातकृपया एकया राज्ञ्या विज्ञप्तो राजा, स्वामिन् ! यो भवता मह्यं प्राग्वरः प्रतिपन्नः सोऽधुना दीयतां, येनाहमेकदिनमुपकरोमि चौरं, तदा कथञ्चिद्राज्ञा प्रतिपन्नं तद्वचः, ततस्तया स्नानादिपुरस्सरं दीनार 'सहस्रव्ययेन विविधवस्त्रालङ्कारैरलङ्कृतः स चौर:, ततो द्वितीया द्वितीयदिने राजानं विज्ञाप्य दीनारदशहस्रव्ययेन स सत्कृतः, ततस्तृतीयया तृतीयदिने दीनारलक्षव्ययेन स उपचरितः७, ततश्चतुर्थ्या दीनारकोटिव्ययेन चतुर्थो दिवसोऽतिवाहितः, ततः पञ्चम्या दुर्भगया राज्ञ्या पञ्चमदिने राज्ञः समीपमागत्य विनयपूर्वकं दीनवचसा नृपो विज्ञप्तः, स्वामिन् ! मम दुर्भगाया उपरि भवदीया तादृशी कृपा नास्ति, तेन मया कदापि भवन्तो न याचिताः, अधुनाऽस्य चौरस्य जीवितदानं मया त्वां