________________
१७४ • सुलभ-चरित्राणि मृतरससदृशोपमममृतरसतुल्यं परमानं घृतखण्डमिश्रितक्षैरेयीरूपं भोजनकं पारणके आसीद् इति प्रथमगाथार्थः । अथ पञ्चदिव्यानि एव आहघुटुं च अहो दाणं, दिव्वाणि य आहयाणि तूराणि । देवा वि सन्निवइया, वसुहारा चेव वुट्ठा य ॥२॥ ___ गाथार्थ:- यदा श्रेयांसगृहे भगवता पारणकं कृतं तदा देवैः अहोदानमहोदानमिति घुष्टम्-उद्घोषणा कृता, तथा देववृन्देन दिव्यानि 'तूर्याणि वादित्राणि आहतानि-वादितानि, आकाशे १°बधिरितदिक्चक्र देवदुन्दुभयो नेदुरित्यर्थः, तथा देवा:-तिर्यग्जृम्भकादयोऽपि सन्निपतिताः-आगता, तथा वसुधारा च वृष्टा सार्धद्वादशकोटिमितसौवर्णिकादिवृष्टिरभूदित्यर्थः । उपलक्षणात् सुगन्धिजलवृष्टिः सुगन्धपुष्पवृष्टिश्चाभूदिति ज्ञेयम्, एतदेव स्पष्यतिभवणं धणेण भुवणं, जसेण भयवं रसेण पडिहत्थो।। अप्पा निरुवमसुखं, सुपत्तदाणं महग्धवियम् ॥३॥ इति ।
गाथार्थ:-दानावसरे भवनं-श्रेयांसगृहं धनेन-स्वर्णरत्नादिमयेन भृतमिति शेषः, भुवनम्-स्वर्गमृत्युपाताललोकरूपं यशसा भृतम्-अहो ! श्रेयांसकुमारेण त्रिजगत्पतये केनाऽप्यदत्तपूर्वं दानं दत्तमिति त्रिलोकीव्यापिनी तस्य कीर्तिरभूदिति भावः, भगवान् ऋषभस्वामी इक्षुरसेन प्रतिहस्तःलाभभागभूद्, संयमलाभस्य इक्षुरसाहारपूर्वकत्वाद्, आत्मा श्रेयांसजीवो निरुपमं सुखं प्राप्तवान्, अतः सुपात्रादानं महाप्रशस्यम् ।
रिसहेस समं पत्तं, निरवज्जं इख्खुरससमं-दाणं । सेयांससमो भावो हविज्ज जई मग्गियं हुज्जा ॥४॥ इयं गाथा स्पष्टार्था ।
ननु त्रैलोक्यपूज्यस्यापि भगवतः कथमेतावान् अन्तरायोऽजनिष्ट ? तत्रोच्यते-११प्राकृतकर्मोदयाद्, तथाहि-कस्मिंश्चित् प्राग्भवे ऋषभस्वामिजीवेन पथि व्रजता धान्यखले१२ धान्यं भक्षयतो बलीवर्दान् तोदनेन१३ १४कर्षु