________________
श्रीअक्षयतृतीया कथा • १७५ कैस्ताड्यमानान् विलोक्य चिन्तितम्, एते मूढा वृषभमुखेषु शिक्यबन्धनं१५ न जानते तस्मिन् क्षणे स्वयं तत्र स्थित्वा स्वहस्तेन वृषभमुखेषु तद्बन्धनोपदेशश्चक्रे, तदानीं च बलीवः निःश्वासानां षष्ट्यधिकत्रिशती (३६०) मुमुचे, तस्मिन् कर्माणि उदिते सति भगवानत्र भवे वर्षमेकं यावद् आहारविघ्नं लेभे, तस्मिन् कर्मणि क्षयोपशमं च प्रापिते श्रेयांसदत्तमाहारं लब्धवान्, श्रेयांसश्च तद्दानफलेन मुक्तिसुखभाग् बभूव, तद्दिनादेव साधुभ्यः प्रासुकाहारदानविधिः सर्वैरपि लोकैरज्ञायि । ततश्च भगवान्, ऋषभदेवो वर्षाणामेकसहस्रं यावत् छाास्थ्येन विहृत्य तपस्तप्त्वा घातिकर्मचतुष्टयं क्षपयित्वा केवलज्ञानं प्राप्य वर्षसहस्रोनपूर्वलक्षं यावदार्यक्षेत्रेषु विहृत्य बहुभव्यान् प्रतिबोध्य मोक्षं जगाम इति श्रुत्वा भो भव्याः ! रत्नत्रयात्मके मोक्षमार्गे बह्वादरेण यतध्वम् इति श्रेयः ॥
अक्षयादितृतीयाया, व्याख्यानं वीक्ष्य प्राक्तनम् । अलेखि सुगमं कृत्वा, क्षमाकल्याणपाठकैः ॥१॥ इति अक्षयतृतीयाव्याख्यानं सम्पूर्णम् ॥
: अभ्यास : प्रश्नः १. श्रेयांसादिभिः त्रिभिः के त्रयः स्वप्नाः दृष्टाः ?
२. भगवान् ऋषभदेवः कस्मात् कारणात् उपवासमकरोत् ? ३. श्रेयांसेन केन द्रव्येण भगवान् प्रतिलाभितः,
भगवता च कथं भिक्षा गृहीता? ४. पञ्च दिव्यानि कानि? ५. केन कारणेन भगवता आहारं न लब्धम् ?
૧. અહીં અક્ષયાદિમાં જે આદિ લખ્યું છે તે પ્રસ્તુત ચરિત્ર કર્તાશ્રીએ આ સાથે અન્ય પણ કથાઓને લખવાની ભાવના સાથે શરૂ કર્યું હશે તેથી આદિ લખ્યું ४९॥य छे. २. परमान्न नपुं-पी२ ॥ ३. संवत्सर पुं.-वर्ष ॥ ४. गवाक्ष पुं. ३५ो ॥५. अप्रदक्षिणां प्रदक्षिणां कृत्वा प्रदक्षिणीकृत्य (A) प्रक्षu sशन ॥ ६. प्रासुक पुं. शुद्ध ॥ ७. घृतञ्च खण्डञ्च घृतखण्डे । द्वन्द्वाघृतखण्डाभ्यां मिश्रिता घृतखण्ड