________________
श्रीनर्मदासुदरीचरित्रम् • १६७ बन्धो ! त्वं खेदं मा कुरु, अहं बुद्धिप्रयोगेण निश्चितं नर्मदां समानयिष्यामीत्युक्त्वा ४१दयार्दान्तःकरणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स बब्बरकुलं प्रति।
इतो वीरदासगमनानन्तरं वाराङ्गनया सा नर्मदा भूमिगृहाद् बहिनिष्कासिता । कथितं च तस्यै त्वमथ वाराङ्गनाचारमङ्गीकुरु, भुक्ष्व च वियोगरहितानि विषयसुखानि । नर्मदया तु तत्कथमपि नाङ्गीकृतम्, वेश्यया पञ्चशतकशाप्रहारैस्ताडितापि सा स्वकीयशीलभङ्गं कर्तुं मनसाऽपि नेच्छेत्, इतः दैवयोगेन४२ नर्मदाशीलमाहात्म्यतस्तद्दिने एव हरिणी मृता । तदा भीताभिरन्याभिस्तत्परिवारवेश्याभिः सा नर्मदा गृहान्निष्कासिता । इतश्च राज्ञा तद्रूपादि श्रुत्वा तदानयनार्थं निजप्रधानपुरुषप्रेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीलरक्षणार्थं बुद्धिमुपाय॑ कृत्रिमाथिलत्वमङ्गीकृत्य सुखासनिकामवगणय्य तैः सार्धं चलिता । मार्गे च ग्रथिलेवानेकविधानि कुतूहलानि कुर्वन्ती पङ्किलमेकं ४३पल्वलं दृष्ट्वा तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति । भो लोका ! यूयं पश्यताहं मम शरीरे कस्तूरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति, तं प्रति सा कर्दममुच्छालयति हस्ताभ्यां च धूलिमुत्पाट्य स्वशिरसि निःक्षिपति लोकांश्चैवं धूलिधूसरान् विदधाति, ततः प्रधानपुरुषै राज्ञोऽग्रे तस्या ग्रथिलत्वं ज्ञापितं, राज्ञा ४४मान्त्रि-कानाहूय नानाप्रकारमन्त्रतन्त्रादिप्रयोगः कारितः, तेन त्वेषा सविशेषं स्वकीयग्रथिलतां प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् । अथ तां ग्रथिला ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा नागरडिम्भादिभिरुपद्रुता४५ निजग्रथिलतां प्रकटयन्ती नगरमध्ये परिभ्रमति।
___ इतोऽसौ जिनदासश्रेष्ठी प्रवहणयुतो बब्बरकुले समागत एव डिम्भगणैः परिवेष्टितां जिनस्तवनान्युच्चारयन्ती इतस्ततः परिभ्रमन्तीं ग्रथिलां नर्मदां विलोकयामास, श्रेष्ठिना चिन्तितम्, नूनमेषा ग्रथिला नास्ति, श्रेष्ठिना तस्यै प्रोक्तम्, हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो ४६भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्टम्, हे पुत्रि ! केयं तेऽवस्था, तव पितृव्य