SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ • सुलभ-चरित्राणि वीरदासकथनतोऽहं भृगुकच्छनगरवास्तव्यो जिनदासनामा श्रेष्ठी ते शुद्ध्यर्थमेवात्रायातोऽस्मि, तत् श्रुत्वा हृष्टा नर्मदा निजोदन्तकथनपूर्वकं बभाण, हे तात ! मामस्मात् सङ्कटान्निष्कासय, जिनदासेनोक्तम्, अथ त्वया राजमार्गे नगरनारीपानीयघटाः कर्करादिप्रयोगेण भञ्जनीयाः, अथ तत्सङ्केतपुरस्सरं तौ द्वावपि नगरमध्ये समागतौ तत्र नर्मदा हास्यादिविविधकुतूहलानि कुर्वन्ती नगरनारीशिरःस्थान् कूपोद्धृतजलभृतघटान् ४ कर्करादिभिर्बभञ्ज, गतश्च राज्ञोऽग्रे नागरजनकृतस्तत्पूत्कारः, राज्ञोक्तमस्ति कोऽपीदृशो नरो य एतां पुरमध्यादहिनिष्कासयेत्, वेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्कार्यं नाङ्गीकृतम्, तदा जिनदासेनागत्योक्तम्-स्वामिश्चेत्तवाज्ञा तर्हि द्वीपान्तरगमनोत्सुकोऽहमेनां प्रवहणे समारोप्य द्वीपान्तरे नयामि, राज्ञा तु हर्षेण नगरजनप्रियं तत्कार्यं तस्मै समर्पितम्। ___अथ जिनदासेन नृपाज्ञया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ हस्तौ च बद्द्वा ४८निगडितौ सा प्रवहणमध्ये मुक्ता । वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कृत्वा जिनदासदत्तवस्त्राभूषणानि परिहितानि, क्रमेण प्रवहणानि भृगुकच्छे प्राप्तानि मीलिता च नर्मदा निजपितृव्याय । पितृव्योऽपि हृष्टः सन् जिनदासस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यां समागतः । तां दृष्ट्वा सर्वमपि कुटुम्ब प्रमुदितम्, तयाऽपि सर्वं निजविडम्बनं कुटुम्बाग्रे प्रकटीकृतम्। अथैकदा ज्ञानी मुनिरेकस्तत्र समायातः, तं प्रति वन्दनार्थं सर्वे गताः । देशनान्ते नर्मदापित्रा पृष्टम्, हे भगवन् ! केन कर्मणा नर्मदा दुःखिनी जाता, मुनिनोक्तम्-सा पूर्वभवे नर्मदा नद्यधिष्ठायिका देव्यासीत् । एकदा शीतादिपरिषहसहनार्थं साधुरेकस्तत्र समायातः, तं दृष्ट्वा मिथ्यात्वभावेन तया तस्योपसर्गाः कृताः, परं साधु निश्चलं ज्ञात्वा तं क्षामयित्वा सम्यक्त्वमङ्गीकृतम् । ततश्च्युत्वेयं तव तनया नर्मदासुन्दरी जाता, भवान्तराभ्यासतस्तद्गर्भोत्पत्तिसमये तस्या मातुर्नर्मदानदीस्नानदोहदो जातः, साधूपसर्गकरणतस्तया च दुःखं प्राप्तम्, इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दीक्षा गृहीता, एकादशाङ्गानि
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy