________________
१६६ • सुलभ-चरित्राणि त्वमत्रैकाकिनी कथं समागतासि, इत्युक्ता सा नयनाभ्यामश्रूणि मुञ्चन्ती सकलमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याने चलितः । क्रमेण बब्बरकुले समागत्य राज्ञश्च ३१प्राभृतं दत्त्वा स सुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र सुखेन तिष्ठति, अथ तस्यां नगर्यामेका हरिण्यभिधाना ३२रूपजितनिर्जराङ्गना वाराङ्गना वसति । तस्यै सन्तुष्टेन राजैवं वरो दत्तोऽस्ति, यद्यः कोऽपि नूतनव्यापारी अत्र समागच्छेत् स तस्यै वाराङ्गनायै दीनारसहस्रमर्पयेत् । अथ वीरदासं तत्रायातं श्रुत्वा तस्या वाराङ्गनाया दासी तद्दीनारसहस्रं ग्रहीतुं तत्पावें समायाता। तत्र ३२रूपलवणिमादिभिर्निखिलनगरनारीगर्वतिरस्कारिणी नर्मदासुन्दरी विलोक्य विस्मयमापन्ना गृहे समागत्य सा हरिणीं प्रति कथयामास, हे स्वामिनि ! मयाऽद्य वीरदासगृहे ३४निखिलनागरपुरुषवशीकरणैकलवणिमा३५ एका प्रमदा विलोकिता । सा चेदस्मदगृहे भवेत् तदा नूनं कल्पवल्लयेव गृहाङ्गणे प्रफुल्लिता ज्ञातव्या।
इतो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितुं तद्गृहे समागतः । हरिण्या च दीनारसहस्रं गृहीत्वा मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पाश्र्वात्तन्नामाङ्किता मुद्रिकाऽधिगता । अथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां गृहे गतः तदवसरं प्राप्य कपटपेटया हिरण्या दास्यै कथितम्, त्वमेतन्मुद्रिकाभिज्ञानं३६ दर्शयित्वा तत्पितृव्याकरणछद्मना तां युवती द्रुतमत्रानय । अथ सैषा ३ कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदासुन्दरी तत्रानयामास । वेश्यया च सा भूमिगृहे गुप्तीकृता । अथ निजस्थानं समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये सा ३८गवेषिता परं तां निर्भाग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स हरिणीगृहे समागतः, तेन तस्यै बहुधा पृष्टं परमनृतैकखन्या२९ तया सत्यं न जल्पितम्, भूरि दिवसानन्तरं नर्मदागवेषणश्रान्तः, शोकाकुलमानसः स ततो निःसृत्य भृगुकच्छपुरे समायातः ।
अथ तत्रैको जिनदासाभिधानः ४°परोपकारैकदक्षः श्राद्धवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृत्तान्तः कथितः, तदा तेनोक्तम्-हे